Book Title: Prakrit Vyakaranam
Author(s): Hemchandracharya, Parshuram Sharma
Publisher: Motilal Laghaji
View full book text
________________
प्राकृतव्याकरणम् [सू. ८-१-२७ मणंसी । मणंसिणी । मणंसिला । पडंसुआ । एषु द्वितीयस्य ॥ अवरिं ।
आणिउत्तयं । अइमुंत्यं । अनयोस्तृतीयस्य ॥ वक्र । व्यत्र । अश्र । श्मश्रु। पुच्छ । गुच्छ । मूर्द्धन् । पशु । बुघ्न । कर्कोट । कुट्मल । दर्शन । वृश्चिक । गृष्टि । मार्जार । वयस्य । मनस्विन् । मनस्विनी । मनःशिला । प्रतिश्रुत् । उपरि । अतिमुक्तक । इत्यादि ॥ कचिच्छन्दःपूरणेऽपि । देवंनाग-सुवण्ण ॥ क्वचिन्न भवति । गिट्ठी । मज्जारो । मणसिला । मणासिला ॥ आर्षे मणोसिला । अइमुत्तयं ॥ २६॥
___ क्त्वा स्यादेण-स्वोर्वा ।। ८।१।२७ ॥ क्त्वायाः स्यादीनां च यौ णसू तयोरनुस्वारोन्तो वा भवति ॥ क्त्वा । काऊणं । काऊण । काउआणं काउआण ॥ स्यादि । वच्छेणं वच्छेण । वच्छेसु वच्छेसु ॥ णस्वोरिति किम् । करिअ । अग्गिणो ॥ २७ ॥
विंशत्यादेर्लुक् ॥ ८॥१॥२८॥ विंशत्यादीनाम् अनुस्वारस्य लुग् भवति । विंशतिः । वीसा ॥ त्रिंशत् । तीसा ॥ संस्कृतम् । सक्कयं ॥ संस्कारः । सक्कारो इत्यादि ॥ २८ ॥
मांसादेर्वा ॥८१॥२९॥ मांसादीनामनुस्वारस्य लुग् वा भवति मास मंसं । मासलं मंसलं । कासं । कंसं । पासू पंसू । कह कहं । एव एवं । नूण नूणं । इआणि इआणि । दाणि दाणिं । कि करेम किं करेमि । समुहं संमुहं । केसुअं किसुअं । सीहो सिंघो । मांस । मांसल । कांस्य । पांसु । कथम् । एवम् । नूनम् । इदानीम् । किम् । संमुख । किंशुक । सिंह इत्यादि ॥ २९ ॥
वर्गेन्त्यो वा ॥ ८॥१॥३०॥ अनुस्वारस्य वर्गे परे प्रत्यासत्तेस्तस्यैव वर्गस्यान्त्यो वा भवति ॥ पको पंको । सङ्खो संखो। अङ्गणं अंगणं । लक्षणं लंघणं । कञ्चुओ कंचुओ। लञ्छणं लंछणं । अजिअं अंजिअं । सञ्झा संझा । कण्टओ कंटओ । उक्कण्ठा उक्कंठा । कण्डं कंडं । सण्ढो ढो । अन्तरं अंतरं । पन्थो पंथो ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 343