Book Title: Prakrit Vyakaranam
Author(s): Hemchandracharya, Parshuram Sharma
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 11
________________ सू. ८-१-३१ ] स्वोपज्ञवृत्तिसहितम् चन्दो चंदो । बन्धवो बंधवो । कम्पइ कंपइ । वम्फइ फइ । कलम्बो कलंबो । आरम्भो आरंभो ॥ वर्ग इति किम् । संसओ । संहरइ । नित्यमिच्छन्त्यन्ये ॥ ३० ॥ प्रावृट् - शरत्तरणयः पुंसि || ८ | १|३१|| प्रावृष् शरत् तरणि इत्येते शब्दाः पुंसि पुल्लिङ्गे प्रयोक्तव्याः ॥ पाउसो | सरओ । एस तरणी || तराणशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थमुपादानम्॥ ३ स्नमदाम - शिरो नभः || ८|१।३२ ॥ 1 । दामन्शिरस्नभस्वर्जितं सकारान्तं नकारान्तं च शब्दरूपं पुंसि प्रयोक्तव्यम् ।। सान्तम् । जसो । पओ । तमो । तेओ । उरो ॥ नान्तम् । जम्मो | नम्मो | मम्मो || अदामशिरोनम इति किम् । दामं । सिरं 1 नहं । यच्च सेयं वयं सुमणं सम्मं चम्ममिति दृश्यते तद् बहुलाधिकारात् ॥३२॥ I 1 वाक्ष्यर्थ-वचनाद्याः ||८|१|३३|| अक्षिपर्याया वचनादयश्च शब्दाः पुंसि वा प्रयोक्तव्याः || अक्ष्यर्थाः | अज्जवि सा सवइ ते अच्छी । नच्चावियाई तेणम्ह अच्छी || अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेपि । एसा अच्छी । चक्खू चक्खूई । नयणा नयाई । लोअणा लोअणाई || वचनादि । वयणा वयणाई || विज्जुणा बिज्जूए । कुलो कुलं । छन्दो छन्दं । माहप्पो माहप्पं । दुक्खा दुखाई || भायणा भायणा । इत्यादि । इति वचनादयः ॥ नेत्ता नेत्ताई । कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ॥ ३३ ॥ 1 गुणाद्याः क्लीवा ॥ ८|१|३४ ॥ 1 गुणादयः क्लीबे वा प्रयोक्तव्याः ॥ गुणाई गुणा । विहवे गुणाइँ मग्गन्ति । देवाणि देवा । बिन्दूई बिन्दुणो । खग्गं खग्गो । मण्डलग्गं मण्डलग्गो । कररुहं कररुहो । रुक्खाईं रुक्खा । इत्यादि । इति गुणादयः ॥ ३४ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 343