________________
सू. ८-१-३१ ]
स्वोपज्ञवृत्तिसहितम्
चन्दो चंदो । बन्धवो बंधवो । कम्पइ कंपइ । वम्फइ फइ । कलम्बो कलंबो । आरम्भो आरंभो ॥ वर्ग इति किम् । संसओ । संहरइ । नित्यमिच्छन्त्यन्ये ॥ ३० ॥
प्रावृट् - शरत्तरणयः पुंसि || ८ | १|३१||
प्रावृष् शरत् तरणि इत्येते शब्दाः पुंसि पुल्लिङ्गे प्रयोक्तव्याः ॥ पाउसो | सरओ । एस तरणी || तराणशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थमुपादानम्॥ ३ स्नमदाम - शिरो नभः || ८|१।३२ ॥
1
।
दामन्शिरस्नभस्वर्जितं सकारान्तं नकारान्तं च शब्दरूपं पुंसि प्रयोक्तव्यम् ।। सान्तम् । जसो । पओ । तमो । तेओ । उरो ॥ नान्तम् । जम्मो | नम्मो | मम्मो || अदामशिरोनम इति किम् । दामं । सिरं 1 नहं । यच्च सेयं वयं सुमणं सम्मं चम्ममिति दृश्यते तद् बहुलाधिकारात् ॥३२॥
I
1
वाक्ष्यर्थ-वचनाद्याः ||८|१|३३||
अक्षिपर्याया वचनादयश्च शब्दाः पुंसि वा प्रयोक्तव्याः || अक्ष्यर्थाः | अज्जवि सा सवइ ते अच्छी । नच्चावियाई तेणम्ह अच्छी || अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेपि । एसा अच्छी । चक्खू चक्खूई । नयणा नयाई । लोअणा लोअणाई || वचनादि । वयणा वयणाई || विज्जुणा बिज्जूए । कुलो कुलं । छन्दो छन्दं । माहप्पो माहप्पं । दुक्खा दुखाई || भायणा भायणा । इत्यादि । इति वचनादयः ॥ नेत्ता नेत्ताई । कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ॥ ३३ ॥
1
गुणाद्याः क्लीवा ॥ ८|१|३४ ॥
1
गुणादयः क्लीबे वा प्रयोक्तव्याः ॥ गुणाई गुणा । विहवे गुणाइँ मग्गन्ति । देवाणि देवा । बिन्दूई बिन्दुणो । खग्गं खग्गो । मण्डलग्गं मण्डलग्गो । कररुहं कररुहो । रुक्खाईं रुक्खा । इत्यादि । इति गुणादयः ॥ ३४ ॥