________________
प्राकृतव्याकरणम् [सू. ८-१-३५ वेमाचल्याद्याः स्त्रियाम् ॥ ८॥११३५ ॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्रयोक्तव्याः ॥ एसा गरिमा एस गरिमा । एसा महिमा एस महिमा । एसा निल्लज्जिमा एस निल्लज्जिमा । एसा धुत्तिमा एस धुत्तिमा । अजल्यादि । एसा अञ्जली एस अञ्जली । पिट्टी पिटूं। पृष्ठभित्वे कृते स्त्रियामेवेत्यन्ये । अच्छी अच्छि । पण्हा पण्हो । चोरिआ चोरिअं । एवं कुच्छी । बली । निही विही । रस्सी । गण्ठी । इत्यञ्जल्यादयः ॥ गड्डा गड्डो इति तु संस्कृतवदेव सिद्धम् । इमेति तन्त्रेण त्वादेशस्य डिमा इत्यस्य पृथ्वादीम्नश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ॥ ३५ ॥
बाहोरात् ॥ ८॥१॥३६॥ बाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओ एक्काए ॥ स्त्रियामित्येव । वामेअरो बाहू ॥ ३६॥
___ अतो डो विसर्गस्य ॥ ८॥१॥ ३७॥ संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति । सर्वतः । सव्वओ । पुरतः । पुरओ ॥ अग्रतः। अग्गओ ॥ मार्गतः । मग्गओ ॥ एवं सिद्धावस्थापेक्षया । भवतः । भवओ ॥ भवन्तः । भवन्तो । सन्तः । सन्तो ।। कुतः । कुदो ॥ ३७॥
निष्प्रती ओत्परी माल्य-स्थोर्वा ॥ ८।१। ३८॥ निर् प्रति इत्येतौ माल्यशब्दे स्थाधातौ च परे यथासंख्यं ओत् परि इत्येवंरूपौ वा भवतः । अभेदनिर्देशः सर्वादेशार्थः ॥ ओमालं । निम्मल्लं । ओमालयं वहइ । परिट्ठा पइट्ठा । परिट्ठिअं । पइट्ठिअं ॥ ३८ ॥
आदेः ॥ ८।१।३९ ॥ आदेरित्यधिकारः ‘कगचज०' [८-१-१७७] इत्यादिसूत्रात् प्रागविशेषे वेदितव्यः ॥ ३९ ॥
त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ ८।१।४०॥ त्यदादेरव्ययाच्च परस्य तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग्