________________
सू. ८-१-४१ ]
स्वोपज्ञवृत्तिसहितम्
भवति || अम्हेत्थ अम्हे एत्थ । जइमा जइ इमा | जइहं जइ अहं ॥४०॥
पदा
||८|१|४१ ॥
1
पदात् परस्य अपेरव्ययस्यादेर्लुग् वा भवति ॥ तं पि तमवि । किं पि किमवि । केण वि केणावि । कहं पि कहमवि ॥ ४१ ॥
इतेः स्वरात् तच द्विः ॥ ८ । १ । ४२ ॥
पदात् परस्य इतेरादेर्लुग् भवति स्वरात् परश्च तकारो द्वर्भवति ॥ किं ति । जं ति । दिट्ठं ति । न जुत्तं ति ॥ स्वरात् । तह ति । झत्ति । पिओ त्ति । पुरिसो त्ति || पदादित्येव । इअ विञ्झ - गुहा - निलयाए ॥ ४२॥
लुप्त-य-र-त्र-श-ष-सां श-ष-सां दीर्घः ॥ ८ । १ । ४३ ॥ प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वा येषां शकारषकारसकाराणां तेषामादे: स्वरस्य दीर्वो भवति ॥ शस्य यलोपे । पश्यति । पासइ ॥ कश्यपः । कासवो || आवश्यकं । आवासयं ॥ रलोपे । विश्राम्यति । वीसमइ || विश्रामः । वीसामो || मिश्रम् | मीसं ॥ संस्पर्शः । संफासो ॥ वलोपे । अश्वः । आसो || विश्वसिति । वीससइ || विश्वासः । बीसासो || शलोपे । दुश्शासनः । दूसासणो ॥। मनःशिला । मणासिला ॥ षस्य यलोपे । शिष्यः। सीसो ॥ पुष्यः । पूसो ॥ मनुष्यः । मणूसो ॥ रलोपे । कर्षकः । कासओ ॥ वर्षाः ः । वासा ॥ वर्षः । वासो ॥ वलोपे । विष्वाणः । वीसाणो ॥ विष्वक् । वीसुं ॥ षलोपे । निषक्तः । नीसत्तो ॥ सस्य यलोपे सासं ॥ कस्यचित् । कासर || रलोपे । उस्रः । ऊसो ॥ विस्रम्भः । सम्भो || वोपे । विकस्वर: | विकासरो ॥ निःस्वः । नीसो ॥ सोपे । निस्सहः । नीसहो || ' न दीर्घानुस्वारात् ' ( ८-२-९२ ) इति प्रतिषेधात् सर्वत्र 'अनादौ शेषादेशयोर्द्वित्वम्' ( ८-२-८९ ) इति द्वित्वाभावः ॥४३॥ अतः समृद्ध्यादौ वा ॥ ८|१|४४ ॥
। सस्यम् ।
वा भवति ॥ सामिद्धी समिद्धी । पासिद्धी पसिद्धी । पायडं पयडं । पाडिवआ पडिव । पात्तो पत्तो । पाडिसिद्धी पडिसिद्धी । सारिच्छो सरिच्छो ।.