________________
प्राकृतव्याकरणम् [सू. ८-१-४५ माणंसी मणंसी । माणंसिणी मणंसिणी । आहिआई अहिआई । पारोहो परोहो । पावासू पवासू । पाडिप्फद्धी पडिफद्धी ॥ समृद्धि । प्रसिद्धि । प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिद्धि । सदृक्ष । मनस्विन् मनस्विनी । अभियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्द्धिन् ॥ आकृतिगणोऽयम् । तेन । अस्पर्शः । आफंसो ॥ परकीयम् । पारकेरं । पारकं ॥ प्रवचनम् । पावयणं ॥ चतुरन्तम् । चाउरन्तम् । इत्याद्यपि भवति ॥ ४४ ॥
दक्षिणे हे ॥ ८॥१॥४५॥ दक्षिणशब्दे आदेरतो हे परे दी| भवति ॥ दाहिणो ॥ ह इति किम् । दक्खिणो ॥ ४५ ॥
इः स्वमादौ ॥ ८।१।४६ ॥ स्वप्न इत्येवमादिषु आदेरस्य इत्वं भवति ॥ सिविणो । सिमिणो ॥ आर्षे उकारोपि । सुमिणो । ईसि ! वेडिसो । विलिअं । विअणं । मुइङ्गो। किविणो । उत्तिमो । मिरिअं । दिणं ॥ बहुलाधिकाराण्णत्वाभावे न भवति । दत्तं । देवदत्तो ॥ स्वप्न । ईषत् । वेतस । व्यलीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच । दत्त । इत्यादि ॥ ४६॥
पक्काङ्गार-ललाटे वा ॥ ८॥१॥४७॥ ___ एप्वादेरत इत्वं वा भवति ॥ पिकं पक्कं । इङ्गालो अङ्गारो । णिडालं णडालं ॥४७॥
मध्यम-कतमे द्वितीयस्य ॥ ८॥१॥४८॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात इत्वं भवति ॥ मज्झिमो । कइमो ॥ ४८॥
___ सप्तपणे वा ॥ ८॥१॥४९॥ सप्तपणे द्वितीयस्यात इत्वं वा भवति ॥ छत्तिवण्णो छत्तवष्णोः॥ ४९ ॥
मयटुइर्वा ॥ ८।११५० ॥ मयट्प्रत्यये आदेरतः स्थाने अइ इत्यादेशो भवति वा ॥ विषमयः । विसमइओ विसमओ ॥ ५० ॥