________________
सू. ८-१-५१ ]
स्वोपज्ञवृत्तिसहितम्
ईरे वा ॥ ८।१।५१ ॥ हरशब्दे आदेरत ईर्वा भवति ॥ हीरो हरो ॥ ५१ ॥ ध्वनि - विष्वचोरुः || ८|१|५२ ॥
अनयोरादेरस्य उत्वं भवति ॥ झुणी | वीसुं ॥ कथं सुणओ । शुनक इति प्रकृत्यन्तरस्य ॥ वनुशब्दस्य तु सा साणो इति प्रयोगौ भवतः ॥५२॥ वन्द्र - खण्डिते णा वा ॥ ८।१।५३ ॥
अनयोरादेरस्य णकारेण सहितस्य उत्वं वा भवति ॥ वुद्रं वन्द्रं । खुडिओ खण्डिओ ॥ ५३ ॥
११
वये वः || ८|१|५४ ॥
गवयशब्दे वकाराकारस्य उत्वं भवति ।। गउओ । गउआ ॥ ५४ ॥ प्रथमे - थोर्वा ।। ८ । १ । ५५ ।।
प्रथमशब्दे पकारथकारयोरकारस्य युगपत् क्रमेण च उकारो वा भवति ।। पुढुमं पुढमं पढुमं पढमं ॥ ५५ ॥
ज्ञो वेभज्ञादौ । ८ । १ । ५६ ।।
अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिष्णू । सव्वण्णू । कयण्णू । आगमण्णू ॥ णत्व इति किम् । अहिज्जो । सव्वजो || अभिज्ञादाविति किम् । प्राज्ञः । पण्णो ॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अभिज्ञादयः ॥ ५६ ॥
एच्छय्यादौ ।। ८ । १ । ५७ ॥
शय्यादिषु आदरस्य एत्वं भवति ॥ सेज्जा | सुन्दरं । गेन्दुअं । एत्थ ॥ शय्या | सौन्दर्य । कन्दुक । अत्र || आर्षे पुरेकम्मं ॥ ५७ ॥
वल्ल्युत्कर - पर्यन्ताश्चर्ये वा ।। ८ । १ । ५८ ।।
एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । उक्तेरो उक्करो । पेरन्तो पज्जन्तो | अच्छेरं अच्छरिअं अच्छअरं अच्छरिज्जं अच्छरिज्जं अच्छरीअं
॥ ५८ ॥