Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१९४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-४ [ भंडय] । भण्डो निर्लज्जः । अडड० - अं । [कुडुली ] । कुटी । अडडडुल्ला:० । स्त्रियां तदन्ताड्डीः ॥ [बहिणुए] । भगिनी । दुहितृभगिन्यो—आबहिण्यौ । स्वार्थे० - कः । आप् । स्वराणां ___ स्व० - ईकारस्य उकारः । सि । वाप ए ॥ जेत्थु । यत्रतत्रयोस्त्रस्य डिदेत्य्वत्तु ।। [अप्पणछंदउं] । चन्दयत्याह्लादयतीति चन्दः, अच् । पृषोदरादित्वाच्छत्वम् । आत्मनश्छन्दो
ऽभिप्रायो यस्य तदात्मछन्दकम् । पुंस्यन० । स्वराणां० । भस्मात्मनोः पो वा ॥ [खसफसिहुअर्ड ] । व्याकुलीभूतः । शीघ्रादित्वात् खसफसिहु । अडड० - अः ॥ [रइवसभमिरु ] । रतिवशभ्रमणशीलः । शमष्टकाद् घिनण् । शीलाद्यर्थस्येरः - इरः ॥ [करग्गुल्लालिउ] । कराग्रोल्लालित ॥ [घरहिं] । गृह । गृहस्य घरोऽपतौ । भिस् । भिस्सुपोर्हि ।। [जि] । पश्चादेवमेवैदानी० ॥ [कोंतु] । कुन्त । स्वराणां० - ओ । अम् । लुक् । स्यमोरस्योत् ॥ [गुणइ ] । कुण गुण केतण्० ॥ [चलेहि वलंतेहिं लोअणेहिं जे तइं] । चलैर्वलमानैर्लोचनैर्ये त्वया । टाङ्यमा पइंतइं ॥ [तहिं] । तेषु । भिस्सुपोर्हि ।। [मयरद्धयदडवडउ पडइ] । मकरध्वज-अवस्कन्दः पतति । सदपतोर्डः ।। अपूरइ । अपूर । अडड० - अ । ङि। ङिनेच्च ॥ पिअहु । पां पाने । त । बहुत्वे हुः । स्वरादनतो वा । स्वराणां० - इ ॥ केरई । केरादेशे अडड० - अ: । टा । आट्टो णा० । एट्टि । स्वराणां० - इ: ॥ [हुंकारडएं] । हुंकार । योगजाश्चैषाम् - अडडअ (डडअ) ॥ १. अ । ङस् । कुटी - ग. । २. खसप्फसिहूअउ - ता. । खसफसिहूअउ - मु. । ३. खसफसेहुअ - ख.। ४. शीलः । शीला० - ख. । ५. ओत् संयोगे - ताटि. । ६. चलंतेहिं - मु. । ७. केरएं - ता. । केरए - मु. ।

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224