Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
प्राकृतप्रबोधः
२०५
सूत्रम्-४४२-४४४] [गंपि] । गत्वा ॥
[मुआ] । मृताः ॥ परावहिं । आप्लृट् परापूर्वः । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं । व्यञ्जनाद० । पो वः॥ [ परमपउ] । परमपदम् ॥ [दिव्वंतरइं] । दिव्यान्तराणि । तीर्थान्तराणीत्यर्थः । क्लीबे जस्शसोरिं ॥ [म जंपि] । मा कथय । कथेर्वज्जरपज्जरोप्पाल० । हिस्वयोरिदुदेत् ॥ [गंग गमेप्पिणु जो मुअउं] । गङ्गां गत्वा यो मृतकः ॥ [जो सिवतित्थ गमेप्पि] । यः शिवतीर्थं गत्वा ॥ [कीलदि]। क्रीडति । डो लः ॥ [तिदसावासगउ सो जमलोउ] । त्रिदशावासगतः स यमलोकम् ।। [जिणेप्पि] । जित्वा । चिजिश्रुहुस्तुलूपूधूगां णो० ॥ ४.४४२ ॥
__ तृनोऽणअः ॥ ४.४४३ ॥ [हत्थि] । हस्तिन् । सि । लुक् । स्तस्य थोऽसमस्तस्तम्बे ।। [मारणउं] । मारयिता ॥ [लोउ बोल्लणउ] । लोकः कथयिता । कथेर्वज्जरपज्जरोप्पालपिसुणसंघबोल्ल० ॥ [पडहु] । पटहः ॥ [वज्जणउ] । वदिता । स्विदां ज्जः ॥ [सुणउ भसणउ] । शुनकः भषिता । भष भर्त्सने ॥ ४.४४३ ॥
इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः ॥ ४.४४४ ॥ [ मल्लजुज्झु] । मल्लयुद्धम् । युधिः । क्त । युधबुधगृधक्रुधसिधमुहां झः । कगचजेति
तलुक् ॥
१. मुअइ - मु.।

Page Navigation
1 ... 217 218 219 220 221 222 223 224