Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 212
________________ १९८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [गउं तहो ] । गतः तस्य ।। [पेम्महो ] । प्रेमन् । सेवादौ वा - द्वित्वम् । ङसः सुहो० ॥ [कइं] । किम् । किमः काइंकवणौ वा । स्वराणां० - अः ॥ [नाउं] । नामन् । अन्त्यव्यञ्ज० । स्वरा इति प्रायोग्रहणात् मकारस्य उं ॥ ४.४२६ ॥ अवश्यमो डे-डौ ॥ ४.४२७ ॥ [जिब्भिदिउ] । जिह्वेन्द्रियम् । ह्वो भो वा ॥ [नायगु] । नायक । अनादौ स्वरादसंयुक्तानां कस्य गः ॥ [वसिकरहु] । वशेकुरुत । बहुत्वे हुः ॥ [जसु] । यस्य । ङसः सुहोस्सवः ॥ [अधिन्नइं अन्नई] । आयत्तान्यन्यानि ॥ [मूलि विणइ तुंबिणिहे ] । मूले विनष्टे तुम्बिन्याः । ङस्ङस्योर्हे ॥ सुक्कहिं । शुष्कानीवाऽऽचरन्तीति क्विप् । अन्ति । त्यादेराद्यत्रयस्य० - हिं । शकस्कन्दे वा - कः ॥ [पण्णइं] । पर्ण । जस् । क्लीबे जस्शसोरिं ॥ न सुअहिं । स्वपावुच्च । त्यादेराद्यत्रयस्य बहुत्वे हिं ।। ४.४२७ ।। ___ एकशसो डि ॥ ४.४२८ ॥ [पच्छित्ताइं] । प्रायश्चित्त । कगचजेति यलुक् । स्वराणां स्वरा इति अकारेण सह आकारस्य अकारः । ह्रस्वात् थ्यश्चत्सप्सा० ॥ ४.४२८ ॥ अ-डड-डुल्लाः स्वार्थिक-क-लुक् च ॥ ४.४२९ ॥ [विरहाणलजालकरालिअउ] | विरहानलज्वालाकरालित । अत्र अः ।। [ पहिउ] । पथिक ॥ पंथि । पन्थे । पथिन्-समानार्थः पन्थशब्दः । १. नेहहो - ता.मु. । २. पथिन्मथिन्समा० - ग. ।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224