Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२०० मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-४ [झुणि] । ध्वनि । त्वथ्वद्वध्वां चछजझाः क्वचित् । ध्वनिविष्वचोरुः ॥ [कण्णडइ पइट्ठ] । कर्णे प्रविष्टा । [तहो ] । तद् । ङस् ॥ [विरहहो नासंतअहो ] । विरहस्य नश्यतः । स्वराणां० - दीर्घः ॥ [धूलडिआ] । धूलि । योगजाश्चैषामिति डडअश्च । अस्येदे इत्यनेन अकारे परे डडान्त्याकारस्य इः । ततो अनेनाऽन्त्याकारस्य डाः ॥ ४.४३२ ।।
अस्येदे ॥ ४.४३३ ॥
युष्मदादेरीयस्य डारः ॥ ४.४३४ ॥ [संदेसएं] । सन्देश । अडड० - अः ॥ [ तुहारेण] । युष्मद् । ङस् । तवाऽयं, दोरीयः । तइतुतेतुम्हंतुहतुहं इति ङसा सह
तुहादेशः । अनेन ईयस्य डारः ॥ [जं] । यत् । अव्ययं संस्कृतसिद्धम् । वा स्वरे मश्च बाहुलकाद् दस्य म् ॥ [संगहो ] । सङ्ग । उसः सुहोस्सवः ॥ मिलिज्जइ । मिलत् श्लेषणे । ईअइज्जौ० ॥ [सडणंतरि]। स्वप्नान्तरे । सर्वत्र लवरा० । स्वपावुच्च । स्वप्ने नात् - इः । कगचज० -
पलुक् ॥ [पिए पाणिएण] । पीतेन पानीयेन । पानीयादिष्वत् ॥ [पिअ पिआस किं] । हे प्रिय ! पिपासा किं ॥ छिज्जइ । छोंच् छेदने । ईअइज्जौ क्यस्य । स्वराणां० - इः ॥ ४.४३४ ॥
अतो.त्तुलः ॥ ४.४३५ ॥
त्रस्य उत्तहे ॥ ४.४३६ ॥ [वारि] । द्वार । कगटड० - दलुक् । ङिनेच्च ।।
१. संदेसें - ता.मु.।

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224