Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१९२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-४ [म. मित्तडा प्रमाणिअउ पइँ] । मया मित्र ! प्रमाणित: त्वया ॥ [जेहउ] । यादृक् । यादृक्तादृक्कीदृगीदृशां दादेर्डेहः ॥ [नाहिं] । किलाथवादिवासहनहे:० ॥ [डोंगर] । पर्वतस्य डुंगरः ॥ [कोट्टरइं] । कोटर । तैलादौ ॥ [हिआ] । हृदय । स्वराणां स्व० - इ । किसलयकालायसहृदये यः । स्यादौ दी० ॥ विसूरहि । खिदेर्जूरविसूरौ । सिव् । मध्यत्रयस्याद्यस्य हि ॥ छड्डेविणु । मुचेश्छड्डावहेड० । एप्प्येप्पिण्वेव्येविणवः । [रयणनिहि] । रत्ननिधि । क्ष्माश्लाघारत्नेऽन्त्यव्यञ्जनात् । अम् । लुक् ॥ [अप्पउं] । आत्मन् । स्वराणां स्व० । भस्मात्मनोः पो वा । स्वार्थे० - कः । अम् ।
कान्तस्यात उं० ॥ [तडि] । तट । टो डः । डिनेच्च ॥ घल्लंति । क्षिपींच् । तक्ष्यादीनां छोल्लादयः - घल्लादेशः ॥ फुक्किज्जंत । फूत्क्रियमाणाः । ईअइज्जौ० । स्वराणां स्वरा० - ऋकारस्य इकारेण सह इः ॥ [दिवेहिं] । दिवा । किलाथवादिवासहनहेः किरा० - दिवे । डेहि ॥ विढत्तउं । अर्जित । गोणादयः - विढत्त । स्वार्थे० - कः । कान्तस्यात उं० ॥ संचि । चिंगृ । हि । हिस्वयोरिदु० । स्वराणां० - इः ॥ एक्कु । सेवादौ वा - द्वित्वम् ॥ [समप्पइ ] । समाप्यते । गमादीनां द्वित्वम् ॥ एक्कमेक्कउँ । एकैकम् । वीप्स्यात् स्यादेर्वीप्स्ये स्वरे मो वा ॥ जोएदि । द्योति । द्यय्यर्यां जः । तिव् । स्वराणां० - ए । अनादौ स्वरादसंयुक्तानां० - दिः ॥
१. एकमेक्कउं - मु. । २. पश्यति । णेरदे० । दिरिचेचो० - ताटि. ।

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224