Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 14
________________ प्रज्ञापनायाः मल य० वृत्तौ. ॥ ४ ॥ सम्यग्दर्शनादिकं करोति नाभव्यानाम्, न चैतदुपपन्नम्, भगवतो वीतरागत्वेन पक्षपातासम्भवात्, नैतत्सारम्, सम्यक्वस्तुतच्चापारिज्ञानात्, भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभव्यानां तथास्वाभाव्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति, तथा चाह वादिमुख्यः- “सद्धर्म्म बीजवपनानघकौशलस्य, यलोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ॥ १ ॥” ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भव्यजननिर्वृतिकरेणेत्युक्तम् । किमित्याह - 'उवदंसिय'त्ति उप- सामीप्येन यथा श्रोतॄणां झटिति यथाऽवस्थितवस्तुतत्त्वावबोधो | भवति तथा, स्फुटवचनैरित्यर्थः, दर्शिता-श्रवणगोचरं नीता, उपदिष्टा इत्यर्थः काऽसौ ? - 'प्रज्ञापना' प्रज्ञाप्यन्ते - प्ररूप्यन्ते जीवादयो भावा अनया शब्दसंहत्या इति प्रज्ञापना, किंविशिष्टेत्यत आह- 'श्रुतरत्न निधानम्' इह रत्नानि द्विविधानि भवन्ति, तद्यथा - द्रव्यरत्नानि भावरलानि (च), तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्वानि श्रुतत्रतादीनि तत्र द्रव्यरत्नानि न तात्त्विकानीति भावरतैरिहाधिकारः, तत एवं समासः - श्रुतान्येव रत्नानि श्रुतरत्नानि न तु श्रुतानि च रत्नानि च, नापि श्रुतानि रत्नानीवेति, कुत इति चेत् ?, उच्यते, प्रथमपक्षे श्रुतव्यतिरिक्तैर्द्रव्यरलैरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात्, शेपरलै रुपमाया अयोगात्, निधानमिव निधानं श्रुतरलानां निधानं श्रुतरत्ननिधानं, केषां प्रज्ञापनेत्यत आह- 'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वभावाः Jain Education national For Personal & Private Use Only १ प्रज्ञापनापदं श्रीवीरादुद्भ वः. ॥ ४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 752