Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
OOOOO
प्रज्ञापनायाः मलयवृत्ती.
१ प्रज्ञापनापदं म
इति नाम न यादृच्छिकम्, किन्तु यथावस्थितमनन्यसाधारणं परीषहोपसर्गादिविषयं वीरत्वमपेक्ष्य सुरासुरकृतम्, उक्तं च-"अयले भयभेरवाणं खन्तिखमे परीसहोवसग्गाणं । देवहिं कए महावीर" इति, अनेनापायापगमातिशयो ध्वन्यते, तं कथंभूतमित्याह-'जिनवरेन्द्रम्' जयन्ति-रागादिशत्रूनभिभवन्ति जिनाः, ते च चतुर्विधाः, तद्यथाश्रुतजिना अवधिजिना मनःपर्यायजिना केवलिजिनाः, तत्र केवलिजिनत्वप्रतिपत्तये वरग्रहणम् , जिनानां वराउत्तमा भूतभवद्भाविभावखभावावभासिकेवलज्ञानकलितत्वात् जिनवराः, ते चातीर्थकरा अपि सन्तः सामान्यकेवलिनो भवन्ति ततस्तीर्थकरत्वप्रतिपत्त्यर्थमिन्द्रग्रहणम् , जिनवराणामिन्द्रो जिनवरेन्द्रः, प्रकृष्टपुण्यस्कन्धरूपतीर्थकरनामकर्मोदयात्तीर्थकर इत्यर्थः । अनेन ज्ञानातिशयं पूजातिशयं चाह, ज्ञानातिशयमन्तरेण जिनेषु मध्ये उत्तमत्वस्य पूजातिशयमन्तरेण जिनवराणामपि मध्ये इन्द्रत्वस्यायोगात् , तं पुनः किंभूतमित्याह-'त्रैलोक्यगुरुम्' गृणाति यथावस्थितं प्रवचनार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुः, तथा च भगवान् अधोलोकनिवासिमवनपतिदेवेभ्यस्तिर्यगलोकनिवासिव्यन्तरनरपशुविद्याधरज्योतिष्कभ्य ऊर्ध्वलोकनिवासिवैमानिकदेवेभ्यश्च धर्म दिदेश, तम् , अनेन वागतिशयमाह । एते चापायापगमातिशयादयश्चत्वारोऽप्यतिशया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम् , तानन्तरेणैषामसम्भवात् , ततश्चतुस्त्रिंशदतिशयोपेतं भगवन्तं महावीर वन्दे इत्युक्तं द्रष्टव्यम् ॥ आह-ननु
१ अचलो भयभैरवेषु क्षान्तिक्षमः परीषहोपसर्गाणां देवैः कृतं (श्रमणो भगवान् ) महावीरः (इति)।
%3D
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 752