SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ OOOOO प्रज्ञापनायाः मलयवृत्ती. १ प्रज्ञापनापदं म इति नाम न यादृच्छिकम्, किन्तु यथावस्थितमनन्यसाधारणं परीषहोपसर्गादिविषयं वीरत्वमपेक्ष्य सुरासुरकृतम्, उक्तं च-"अयले भयभेरवाणं खन्तिखमे परीसहोवसग्गाणं । देवहिं कए महावीर" इति, अनेनापायापगमातिशयो ध्वन्यते, तं कथंभूतमित्याह-'जिनवरेन्द्रम्' जयन्ति-रागादिशत्रूनभिभवन्ति जिनाः, ते च चतुर्विधाः, तद्यथाश्रुतजिना अवधिजिना मनःपर्यायजिना केवलिजिनाः, तत्र केवलिजिनत्वप्रतिपत्तये वरग्रहणम् , जिनानां वराउत्तमा भूतभवद्भाविभावखभावावभासिकेवलज्ञानकलितत्वात् जिनवराः, ते चातीर्थकरा अपि सन्तः सामान्यकेवलिनो भवन्ति ततस्तीर्थकरत्वप्रतिपत्त्यर्थमिन्द्रग्रहणम् , जिनवराणामिन्द्रो जिनवरेन्द्रः, प्रकृष्टपुण्यस्कन्धरूपतीर्थकरनामकर्मोदयात्तीर्थकर इत्यर्थः । अनेन ज्ञानातिशयं पूजातिशयं चाह, ज्ञानातिशयमन्तरेण जिनेषु मध्ये उत्तमत्वस्य पूजातिशयमन्तरेण जिनवराणामपि मध्ये इन्द्रत्वस्यायोगात् , तं पुनः किंभूतमित्याह-'त्रैलोक्यगुरुम्' गृणाति यथावस्थितं प्रवचनार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुः, तथा च भगवान् अधोलोकनिवासिमवनपतिदेवेभ्यस्तिर्यगलोकनिवासिव्यन्तरनरपशुविद्याधरज्योतिष्कभ्य ऊर्ध्वलोकनिवासिवैमानिकदेवेभ्यश्च धर्म दिदेश, तम् , अनेन वागतिशयमाह । एते चापायापगमातिशयादयश्चत्वारोऽप्यतिशया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम् , तानन्तरेणैषामसम्भवात् , ततश्चतुस्त्रिंशदतिशयोपेतं भगवन्तं महावीर वन्दे इत्युक्तं द्रष्टव्यम् ॥ आह-ननु १ अचलो भयभैरवेषु क्षान्तिक्षमः परीषहोपसर्गाणां देवैः कृतं (श्रमणो भगवान् ) महावीरः (इति)। %3D Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy