________________
ऋषभादीन् व्युदस्स किमर्थं भगवतो महावीरस्य वन्दनम् ?, उच्यते, वर्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वात् , तदेवासन्नोपकारित्वं दर्शयति
सुयरयणनिहाणं जिणवरेणं भवियजणणिव्वुइकरेणं । उवदंसिया भगवया पन्नवणा सव्वभावाणं ॥२॥ ___ अत्र प्रज्ञापनेति विशेष्यं शेषं सामानाधिकरण्येन वैय्यधिकरण्येन च विशेषणं, 'जिणवरेण'न्ति जिनाः-सामान्यकेवलिनः तेषामपि वरः-उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्यात् महावीरेण, अन्यस्य वर्तमानतीर्थाधिपति|त्वाभावात् , इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते ततस्तत्कल्पं मा ज्ञासीविनय
जन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह-'भगवता' भगः-समग्रैश्चर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, | रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, पण्णां भग इतीङ्गना ॥१॥" भगोऽस्याऽस्तीति भगवान् , अतिशायने वतुप्रत्ययः, अतिशायी च भगो वर्द्धमानखामिनः शेषप्राणिगणापेक्षया, त्रैलोक्याधिपतित्वात् , तेन भगवता, परमाहन्त्यमहिमोपेतेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'भव्यजननिर्वृतिकरण'. भव्यः-तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यःस चासौ जनश्च भव्यजनः निर्वृतिः-निर्वाणं सकलकर्ममलापगमनेन वखरूपलाभतः परमं स्वास्थ्य तद्धेतुः सम्यग्दर्शनाद्यपि कारणे कार्योपचारात् निर्वृतिस्तत्करणशीलो निर्वृतिकरः भव्यजनस्य निर्वृतिकरो भव्यजननितिकरस्तेन, आह-भव्यग्रहणमभव्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात् , तत इदमापतितं-भव्यानामेव
Jain Education
For Personal & Private Use Only
ahelibrary.org