________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥ ४ ॥
सम्यग्दर्शनादिकं करोति नाभव्यानाम्, न चैतदुपपन्नम्, भगवतो वीतरागत्वेन पक्षपातासम्भवात्, नैतत्सारम्, सम्यक्वस्तुतच्चापारिज्ञानात्, भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभव्यानां तथास्वाभाव्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति, तथा चाह वादिमुख्यः- “सद्धर्म्म बीजवपनानघकौशलस्य, यलोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ॥ १ ॥” ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भव्यजननिर्वृतिकरेणेत्युक्तम् । किमित्याह - 'उवदंसिय'त्ति उप- सामीप्येन यथा श्रोतॄणां झटिति यथाऽवस्थितवस्तुतत्त्वावबोधो | भवति तथा, स्फुटवचनैरित्यर्थः, दर्शिता-श्रवणगोचरं नीता, उपदिष्टा इत्यर्थः काऽसौ ? - 'प्रज्ञापना' प्रज्ञाप्यन्ते - प्ररूप्यन्ते जीवादयो भावा अनया शब्दसंहत्या इति प्रज्ञापना, किंविशिष्टेत्यत आह- 'श्रुतरत्न निधानम्' इह रत्नानि द्विविधानि भवन्ति, तद्यथा - द्रव्यरत्नानि भावरलानि (च), तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्वानि श्रुतत्रतादीनि तत्र द्रव्यरत्नानि न तात्त्विकानीति भावरतैरिहाधिकारः, तत एवं समासः - श्रुतान्येव रत्नानि श्रुतरत्नानि न तु श्रुतानि च रत्नानि च, नापि श्रुतानि रत्नानीवेति, कुत इति चेत् ?, उच्यते, प्रथमपक्षे श्रुतव्यतिरिक्तैर्द्रव्यरलैरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात्, शेपरलै रुपमाया अयोगात्, निधानमिव निधानं श्रुतरलानां निधानं श्रुतरत्ननिधानं, केषां प्रज्ञापनेत्यत आह- 'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वभावाः
Jain Education national
For Personal & Private Use Only
१ प्रज्ञापनापदं श्रीवीरादुद्भ
वः.
॥ ४॥
www.jainelibrary.org