________________
जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाः, तथाहि-अस्यां प्रज्ञापनाया पत्रिंशत्पदानि तत्र प्रज्ञापना बहुवैक्तव्यविशे
चरमपरिणामसज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्मनःकर्म योगः AI (स) आश्रवः' (तत्त्वा० अ०६ सू०१-२) इति वचनात् , कर्मप्रकृतिपदे बन्धस्य समुधातपदे केवलिसमुद्घातप्ररूप-K
णायां संवरनिर्जरामोक्षाणां त्रयाणां, शेषेषु तु स्थानादिषु पदेषु क्वचित्कस्यचिदिति, अथवा 'सर्वभावाना मिति द्रव्यक्षेत्रकालभावानाम् , एतद्वयतिरेकेणान्यस्य प्रज्ञापनीयस्याभावात् , तत्र प्रज्ञापनापदे जीवाजीवद्रव्याणां प्रज्ञापना स्थानपदे जीवाधारस्य क्षेत्रस्य स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य शेषपदेषु सङ्ख्याज्ञानादिपर्यायव्युत्क्रान्त्युच्छ्वासादीनां भावानामिति । अस्याश्च गाथाया 'अज्झयणमिणं चित्त' मित्यनया गाथया सहाभिसम्बन्धः॥ केवलं येनेयं सत्त्वानुग्रहाय श्रुतसागरादुद्धृता असावप्यासन्नतरोपकारित्वादस्मद्विधानां नमस्कारार्ह इति तन्नमस्कारविषय-18 मिदमपान्तराल एवान्यकर्तृकं गाथाद्वयम्
वायंगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीण ॥१॥
सुयसागरा विणेऊण जेण सुयर्यणमुत्तमं दिन्न । सीसगणस्स भगवओ तस्स नमो अजसामस्स ॥२॥ (प्र०)
वाचकाः-पूर्वविदः वाचकाच ते वराश्च वाचकवराः-वाचकप्रधानाः तेषां वंशः-प्रवाहो वाचकवरवंशः तस्मिन्, ॥ सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात् , प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्त्तन्ते, तथा चाह
पाणिनिः खप्राकृतव्याकरणे-'व्यत्ययोऽप्यासा' मिति, त्रयोविंशतितमेन तथा च सुधर्मखामिन आरभ्य भगवा
JainEducation
For Personal & Private Use Only
www.jainelibrary.org