________________
प्रज्ञापना- याः मलय० वृत्ती.
नार्यश्यामस्त्रयोविंशतितम एव, किंभूतेन ?-'धीरपुरुषेण धीः-बुद्धिस्तया राजते इति धीरः धीरश्वासौ पुरुषश्च 8१ प्रज्ञापधीरपुरुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि पञ्च महाव्रतानि धारयतीति दुर्द्धरधरस्तेन, तथा नापदं आमन्यते जगतस्त्रिकालावस्थामिति मुनिस्तेन, विशिष्टसंवित्समन्वितेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'पूर्वश्रुतसमृद्धबुद्धिना'
र्यश्यामाय
नतिः . पूर्वाणि च तत् श्रुतं च पूर्वश्रुतं तेन समृद्धा-वृद्धिमुपगता बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन, आह-यो वाचकवरवं-15 शान्तर्गतः स पूर्वश्रुतसमृद्धबुद्धिरेव भवति, ततः किमनेन विशेषणेन!, सत्यमेतत्, किन्तु पूर्वविदोऽपि षट्रस्थानपतिता भवन्ति, तथा च चतुर्दशपूर्व विदामपि मतिमधिकृत्य षट्स्थानकं वक्ष्यति, तत आधिक्यप्रदर्शनार्थमिदं विशेषणमित्यदोषः, 'समिद्धबुद्धीणे' त्यत्र णाशब्दस्य इखत्वं द्विशब्दस्य च दीर्घताऽऽत्वात् , तथा श्रुतमनर्वापारत्वात् सुभाषितरत्नयुक्तत्वाच सागर इव श्रुतसागरः 'व्याघ्रादिभिर्गौणैस्तद्गुणानुक्ताविति(म. नामप्र० पा०८ सू०३१) समासः, तस्मात् 'विणेऊणन्ति' देशीवचनमेतत् , साम्प्रतकालीनपुरुषयोग्यं वीनयित्वेत्यर्थः, येनेदं प्रज्ञापनारूपं श्रुतरत्नमुत्तम-प्रधान, प्राधान्यं च न शेषश्रुतरत्नापेक्षया, किन्तु खरूपतः, दत्तं शिष्यगणाय तस्मै, भगवते-ज्ञानेश्वर्यधर्मादिमते आरात्सर्वहेयधर्मेभ्यो यातः-प्राप्तो गुणैरित्यार्यः स चासौ श्यामश्च आर्यश्यामः तस्मै, सूत्रे च षष्ठी चतुर्थ्यर्थे द्रष्टव्या, 'छट्ठिविमत्तीऍ मन्नइ चउत्थी' इति वचनात् ॥ अधुनोक्तसम्बन्धवेयं गाथा। १ षष्ठीविभत्त्या भण्यते चतुर्थी।
॥५
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org