________________
अज्झयणमिणं चित्तं सुयरयणं दिद्विवायणीसन्दं । जह वन्नियं भगवया अहमवि तह वनइस्सामि ॥३॥ अध्ययनमिदं-प्रज्ञापनाख्यम्, ननु यदीदमध्ययनं किमित्यस्यादावनुयोगादिद्वारोपन्यासो न क्रियते , उच्यते, नायं नियमो यदवश्यमध्ययनादावुपक्रमाद्युपन्यासः क्रियते इति, अनियमोऽपि कुतोऽवसीयते इति चेत. उच्यते, नन्द्यध्ययनादिष्वदर्शनात् , तथा चित्रार्थाधिकारयुक्तत्वाचित्रम् , श्रुतमेव रत्नं श्रुतरत्नं दृष्टिवादस्य-द्वादशा-11 ङ्गस्य निष्यन्द इव दृष्टिवादनिष्यन्दः, सूत्रे नपुंसकतानिर्देशः प्राकृतत्वात्, यथा वर्णितं भगवता-श्रीमन्महावीरवर्धमानखामिना इन्द्रभूतिप्रभृतीनामध्ययनार्थस्य वर्णितत्वात् अध्ययनं वर्णितमित्युक्तम् , अहमपि तथा वर्णयिष्या|मि ॥ आह-कथमस्य छद्मस्थस्य तथा वर्णयितुं शक्तिः, नैष दोषः, सामान्येनाभिधेयपदार्थवर्णनमात्रमधिकृत्यैवमभिधानात् , तथा चाहमपि तथा वर्णयिष्यामीति किमुक्तं भवति?-तदनुसारेण वर्णयिष्यामि, न खमनीषिकयेति ॥ अस्यां च प्रज्ञापनायां षत्रिंशत् पदानि भवन्ति, पदं प्रकरणमर्थाधिकार इति पर्यायाः, तानि च पदान्यमूनि
पनवणा ठाणाई बहुवतव्वं ठिई विसेसी य । वर्कन्ती ऊसाँसो सनी जोणी ये' चरिमाई ॥४॥ भासा सरीर परिणाम कसीए इन्दिए पंओगे य । लेसा कायठिई याँ सम्मत्ते अन्तकिरिया” य ॥५॥ ओगाहणसण्ठाणा किरियों कैम्मे इयावरे । [कम्मस्स बन्धएं [कम्मस्स वेर्दै [ए] वेदस्स बन्धए वेयवेयएँ ॥६॥ हिारे उवैओगे पासणैया सैन्नि संञ्जमे चेव । ओही पवियारण वेदणा य तत्तो समुग्धाएं ॥७॥
cिeaeeeeeeeeeee
Jain Education
For Personal & Private Use Only
aahelibrary.org