SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ. ॥ ६॥ तत्र प्रथमं पदं प्रज्ञापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात् प्रज्ञापना १ एवं द्वितीयं स्थानानि २ तृतीयं बहुवक्तव्यम् ३ चतुर्थ स्थितिः ४ पञ्चमं विशेषाख्यं ५ षष्ठं व्युत्क्रान्तिः व्युत्क्रान्तिलक्षणार्थाधिकारयुक्तत्वात् ६ सप्तममुच्छ्वासः ७ अष्टमं सज्ञा ८ नवमं योनिः ९ दशमं चरमाणि चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात् १० एकादशं भांषा ११ द्वादशं शरीरं १२ त्रयोदशं परिणामः १३ चतुर्दशं कषायं १४ पञ्चदशमिन्द्रियं १५ षोडशं प्रयोगः १६ सप्तदशं लेश्या १७ अष्टादशं कायस्थितिः १८ एकोनविंशतितमं सम्यक्त्वम् १९ विंशतितममन्तक्रिया २० एकविंशतितममवगाहनास्थानं २१ द्वाविंशतितमं क्रिया २२ त्रयोविंशतितमं कर्म २३ चतुर्विंशतितमं कर्मणो बन्धकः, तस्मिन् हि यथा जीवः कर्मणो बन्धको भवति तथा प्ररूप्यते इति तत्तथानाम २४ एवं पञ्चविंशतितमं कर्मवेदकः २५ षडूर्विंशतितमं वेदस्य बन्धक इति, वेदयते - अनुभवतीति वेदस्तस्य बन्ध एव बन्धकः, किमुक्तं भवति ? - कति प्रकृतीर्वेदयमानस्य कतिप्रकृतीनां बन्धो भवतीति तत्र निरूप्यते ततस्तद्वेदस्य बन्ध इति नाम २६ एवं कां प्रकृतिं वेदयमानः कति प्रकृतीर्वेदयति इत्यर्थप्रतिपादकं वेदवेदको नाम सप्तविंशतितमम् २७ अष्टाविंशतितममाहारप्रतिपादकत्वादाहारः २८ एवमेकोनत्रिंशत्तममुपयोगः २९ त्रिंशत्तमं 'पासणय'त्ति दर्शनता ३० एकत्रिंशत्तमं सज्ञा ३१ द्वात्रिंशत्तमं संयमः | ३२ त्रयस्त्रिंशत्तममवधिः ३३ चतुस्त्रिंशत्तमं प्रविचारणा ३४ पञ्चत्रिंशत्तमं वेदना ३५ षट्त्रिंशत्तमं समुद्घातः ३६ ॥ तदेवमुपन्यस्तानि पदानि ॥ साम्प्रतं यथाक्रमं पदगतानि सूत्राणि वक्तव्यानि, तत्र प्रथमपदगतमिदमादिसूत्रम् - Jain Educationlational For Personal & Private Use Only १ प्रज्ञाप नापदं पदाभिधेयनिर्देश:. ॥ ६॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy