________________
से किं तं पन्नवणा ?, पनवणा दुविहा पन्नत्ता, तंजहा-जीवपन्नवणा य अजीवपन्नवणा य ॥ (मू०१) अथास्य सूत्रस्य का प्रस्तावः, उच्यते, प्रश्नसूत्रमिदम् , एतच्चादावुपन्यस्तमिदं ज्ञापयति-पृच्छतो मध्यस्थबुद्धिमतोऽर्थिनो भगवदहदुपदिष्टतत्त्वप्ररूपणा कार्या, न शेषस्य, तथा चोक्तम्-'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः', तत्र सेशब्दो मागधदेशीप्रसिद्धो निपातः तत्रशब्दार्थे, अथवा अथशब्दार्थे, स च वाक्योपन्यासार्थः, किमिति परप्रश्ने, 'त'ति तावदिति द्रष्टव्यम् , तच क्रमोद्योतने, तत एष समुदायार्थः-तिष्ठन्तु स्थानादीनि पदानि प्रष्टव्यानि, वाचः क्रमवर्तित्वात् प्रज्ञापनाऽनन्तरं च तेषामुपन्यस्तत्वात् , तत्रैतावदेव तावत् पृच्छामि-किं प्रज्ञापनेति, ? अथवा प्राकृतशैल्या 'अभिधेयवलिङ्गवचनानि योजनीयानि' इति न्यायादेवं द्रष्टव्यम्, तत्र का तावत् प्रज्ञापनेति !, एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादरार्थ किञ्चित् शिष्योक्तं प्रत्युचार्याह-पन्नवणा दु-16 विहा पन्नत्ता' इति, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाचष्टे-न सर्वमेव सूत्रं गणधरप्रश्नतीर्थकरनिर्वचनरूपम् , किन्तु किञ्चिदन्यथाऽपि, बाहुल्येन तु तथारूपम् , यत उक्तम्-"अत्थं भासइ अरिहा सुत्तं गन्थन्ति गणहरा निउण'मित्यादि, तत्र प्रज्ञापनेति पूर्ववत्, 'द्विविधा' द्विप्रकारा 'प्रज्ञप्ता' प्ररूपिता, यदा तीर्थकरा एव निर्वक्तारस्तदाऽयमर्थोऽवसेयः-अन्यैरपि तीर्थकरैः, यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी तदा तीर्थकरगणधरैरिति, द्वैवि
१ अर्थ भाषतेऽईन सूत्र प्रश्नन्ति गणधरा निपुणम् ।
प्र.२७ JainEducationA onal
For Personal & Private Use Only
nelibrary.org