SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १ प्रज्ञापनापदे अ|जीवप्र. (सू. २) प्रज्ञापना- ध्यमेवोपदर्शयति-'तंजहा जीवपन्नवणा य अजीवपन्नवणा य' 'तद्यथेति वक्ष्यमाणभेदकथनप्रकाशनार्थः, जीवन्तिया: मल- प्राणान् धारयन्तीति जीवाः, प्राणाश्च द्विधा-द्रव्यप्राणा भावप्राणाश्च, तत्र द्रव्यप्राणा इन्द्रियादयो भावप्राणा ज्ञानादीय० वृत्तौ. नि, द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकादयः, केवलभावप्राणैः प्राणिनो व्यपगतसमस्तकर्मसङ्गाः सिद्धाः, जीवानां प्रज्ञापना जीवप्रज्ञापना, न जीवा अजीवा-जीवविपरीतखरूपाः, ते च धर्माधर्माकाशपुद्गलास्तिकायाद्धासमयरूपास्तेषां प्रज्ञापना अजीवप्रज्ञापना, चकारी द्वयोरपि प्राधान्यख्यापनार्थों, न खल्विहान्यतरस्याः प्रज्ञापनायाः गुणभावः, एवं सर्वत्राप्यक्षरगमनिका कार्या ॥ तदेवं सामान्येन प्रज्ञापनाद्वयमुपन्यस्य सम्प्रति विशेषखरूपावगमार्थमादावल्पवक्तव्यत्वादजीवप्रज्ञापनां प्रतिपिपादयिपुस्तद्विषयं प्रश्नसूत्रमाहसे किं तं अजीवपन्नवणा?, अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा-रूविअजीवपन्नवणा य अरूविअजीवपन्नवणा य (सू०२) अथ किं तत् अजीवप्रज्ञापनेति ?, अथवा का साऽजीवप्रज्ञापना १, सूरिराह-'अजीवपन्नवणा दुविहा पन्नत्ता, तंजहा' इत्यादि, अजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-रूप्यजीवप्रज्ञापना च अरूप्यजीवप्रज्ञापना च, रूपमेषामजास्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणम् , तद्व्यतिरेकेण तस्यासम्भवात् , तथाहि-प्रतिपरमाणु रूपरसगन्धस्पर्शाः, उक्तं च-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" १ परमश्वासावणुश्चेति, वर्णगन्धरसस्पर्शादिकारणमेव तदन्त्यमित्यादि, सूक्ष्मो नित्यश्च परमाणुर्भवति, सर्वेभ्यः पुद्गलेभ्योऽतिसूक्ष्म इत्यर्थः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy