________________
तस्मादन्यतिरेकः परस्परं रूपादीनामिति, अथवा रूपं नाम-स्पर्शरूपादिसम्मूर्च्छनात्मिका मूर्तिस्तदेषामस्तीति रूपिणः, रूपिणश्च तेऽजीवाश्च रूप्यजीवाः तेषां प्रज्ञापना रूप्यजीवप्रज्ञापना, पुद्गलखरूपाजीवप्रज्ञापनेतियावत् , पुद्गलानामेव रूपादिमत्त्वात् , रूपिव्यतिरेकेणारूपिणो धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवाः तेषां प्रज्ञापना अरूप्यजी-|| वप्रज्ञापना, चशब्दौ प्राग्वत् ॥ तत्राल्पवक्तव्यत्वात् प्रथमतोऽरूप्यजीवप्रज्ञापनां चिकीर्षुरिदमाह
से कि त अरूविअजीवपनवणा?, अरूविअजीवपन्नवणा दसविहा पन्नता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा आगासत्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायस्स पदेसा अद्धासमए १०, सेत्तं अरूविअजीवपन्नवणा ॥ (मू०३) | सेशब्दोऽथशब्दार्थः, अथ का सा अरूप्यजीवप्रज्ञापना, सूरिराह-अरूप्यजीवप्रज्ञापना 'दशविधा' दशप्रकारा पर्यायार्थतयाऽनित्यत्वेपि द्रव्यार्थतया तु नित्यः, पुनः कीदृशः परमाणुः ?-'एकरसवर्णगन्धः' एक एव वर्णो गन्धो रसश्च परमाणौ यस्मिन् । सः, पुनः की०?-'द्विस्पर्शः' द्वौ स्पशौं यस्मिन् स शीतोष्णस्निग्धरूक्षाख्यानां चतुर्णा स्पर्शानां मध्यादविरुद्धस्पर्शद्वयोपेत इत्यर्थः, पुनः कीदृशः परमाणुः–'कार्यलिङ्गः' कार्य घटपटादिवस्तुजातं तल्लिङ्ग-ज्ञापकं यस्य स कथमित्याह-यतः, तत्परमाण्वाख्यं सर्वेषां पदार्थानामन्त्यं कारणं वर्त्तते, अयमत्र भावार्थ:-सर्वेऽपि द्विप्रदेशादयः स्कन्धाः, तथा सङ्ख्यातप्रदेशा असङ्ख्यातप्रदेशा अनन्तप्रदेशाश्च ये स्कन्धास्तेषां सर्वेषां पदानामन्यं कारणं परमाणरस्तीत्यर्थः.
Jain Education
a
l
For Personal & Private Use Only
hbelibrary.org