________________
प्रज्ञापनायाः मलय. वृत्तौ.
१ प्रज्ञापनापदे अरूप्यजीवप्रज्ञा.
॥८॥
प्रज्ञता, अरूप्यजीवानां दशविधत्वात् तत्प्ररूपणापि दशविधोक्ता, तदेव दशविधत्वं दर्शयति-तंजहे' त्यादि. तद्यथेति वक्ष्यमाणभेदकथनोद्योतनार्थः, 'तद्'दशविधत्वम् , यदिवा 'तदि'त्यव्ययं सर्वलिङ्गवचनेषु सा दशविधाऽरूप्यजीवप्रज्ञापना यथा भवति तथा दयते-'धम्मत्थिकाए'त्ति जीवानां पुद्गलानां च खभावत एव गतिपरिणामपरिणतानां तत्वभावधरणात्-तत्खभावपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां कायः-सङ्घातः, 'गण काए य निकाए खन्धे वग्गे तहेव रासीय इतिवचनात् ,अस्तिकायः प्रदेशसङ्घात इत्यर्थः, धर्मश्चासौ अस्तिकायश्च धर्मास्तिकायः, अनेन च सकलमेव धर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवी च नामावयवानां तथारूपसङ्घातपरिणामविशेष एव, न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरं द्रव्यम्, तथाऽनुपलम्भात् , तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम, उक्तं चान्यैरपि-'तन्त्वादिव्यतिरेकेण, न पटाद्युपलम्भनम् । तन्त्वादयो विशिष्टा हि, पटादिव्यपदेशिनः ॥१॥" कृतं प्रसङ्गेन, अन्यत्र चिन्तितत्वादेतद्वादस्य, तथा 'धर्मास्तिकायस्य देश' इति तस्यैव धर्मास्तिकायस्य बुद्धिविकल्पितो यादिप्रदेशात्मको विभागः, 'धम्मत्थिकायस्स पदेसा' इति प्रकृष्टा देशाः प्रदेशाः-निर्विभागा भागा इति भावः, ते चासङ्खयेयाः, लोकाकाशप्रदेशप्रमाणत्वात् तेषाम् , अत एव बहुवचनम् , धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तं भवति ?-जीवपुद्गलानां स्थिति
१ गणः कायो निकायः स्कन्धो वर्गः तथैव राशिश्च ।
॥
८
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org