________________
सिद्धाः-नित्या अपर्यवसानस्थितिकत्वात् , प्रख्याता वा भव्यरुपलब्धगुणसन्दोहत्वात् , उक्तं च-"ध्मातं सितं येन | पुराणकर्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥१॥" सिद्धाश्च नामादिभेदतोऽनेकधा ततो यथोक्तसिद्धप्रतित्त्यर्थ विशेषणमाह-व्यपगतजरामरणभयान्' जरावयोहानिलक्षणा मरणं-प्राणत्यागरूपम् भयम्-इहलोकादिभेदात्सप्तप्रकारम् , उक्तं च-"इहपरलोगादाणं अकम्हआजीवमरणमसिलोए" इति, विशेषतः-अपुनर्भावरूपतया अपगतानि-परिभ्रष्टानि जरामरणभयानि येभ्यस्ते तथा तान् , 'त्रिविधेन' मनसा वाचा कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह, 'अभिवन्द्य' अभिमुखं | वन्दित्वा, प्रणम्येत्यर्थः । अनेन समानकर्तृकतया पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तपशव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षे क्त्वाप्रत्ययस्यासम्भवात् , तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यम् , तस्य कथं भिन्नकालक्रियाद्वयकर्तृत्वोपपत्तिः ?, आकालमेकखभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात्, अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्यापि भिन्नकालक्रियाद्वयकर्तृत्वायोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात् , क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह-'वन्दामि जिणवरिन्द' मित्यादि, 'सूर वीर विक्रान्तौ वीरयति स्म कषायादिशत्रून् प्रति विक्रामति स्मेति वीरः, महांश्चासौ वीरश्च महावीरः, इदं च 'महावीर'
१ इहपरलोकादानाकस्मादाजीवमरणाश्लोकाः ।
dain Education LOL
For Personal & Private Use Only
rebrary.org