________________
प्रज्ञापना
याः मलय० वृत्तौ.
॥२॥
सिंस्सपसिस्साइवंसस्स ॥ २ ॥ तत्र प्रथमपदगतेन 'ववगयजरमरणभये' इत्यादिना ग्रन्थेनादिमङ्गलम् इष्टदेवतास्तवस्य परममङ्गलत्वात्, उपयोगपदगतेन 'कइविहे णं भन्ते ! उवओगे पन्नत्ते' इत्यादिना मध्यमङ्गलम्, उपयोगस्य ज्ञानरूपत्वात् ज्ञानस्य च कर्मक्षयं प्रति प्रधानकारणतया मङ्गलत्वात्, न च कर्मक्षयं प्रति प्रधानकारणता तस्य न प्रसिद्धा, तस्याः साक्षादागमेऽभिधानात्, तथा चागमः - "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उस्सासमित्तेणं ॥ १ ॥" तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमाप्त्युत्तरकालभा विना सिद्धाधिकारप्रतिबद्धेन — निच्छिन्नसवदुक्खा जाइजरामरणबन्धणविमुक्का | सासयमव्यावाहं चिट्ठन्ति सुही सुहं पत्ता ॥ १ ॥" इत्यादिना अवसानमङ्गलम् ॥ अधुनाऽऽदिमङ्गलसूत्रं व्याख्यायते -
ववगयजरमरणभये सिद्धे अभिवन्दिऊण तिविहेणं । वन्दामि जिणवरिन्दं तेलोकगुरुं महावीरं ॥ १ ॥
सितं-बद्धमष्टप्रकारं कर्मेन्धनं ध्यातं - दग्धं जाज्वल्यमान शुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'षिधु गतौ' सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् यदिवा 'षिध संराद्धौ' सिध्यन्ति स्म - निष्ठितार्था भवन्ति स्म यद्वा 'षिधु शास्त्रे माङ्गल्ये च' सेधन्ते स्म - शासितारोऽभवन् मङ्गल्यरूपतां वाऽनुभवन्ति स्मेति सिद्धाः, अथवा १ शिष्यप्रशिष्यादिवंशे ॥ २ ॥ २ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ १ ॥ ३ निश्छिन्नसर्वदुःखा जतिजरामरणबन्धनविमुक्ताः । शाश्वतमन्याबाधं विष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
1
१ प्रज्ञाप
नापदं म ङ्गलम्.
॥२॥
www.jainelibrary.org