SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ तु निःश्रेयसावाप्तिः, ते हि विवक्षितमध्ययनमर्थतः सम्यगवगम्य संसाराद्विरज्यन्ते, विरक्ताश्च सन्तः संसाराद्विनिजिंगमिषवः संयमाध्वनि यथाऽऽगमं सम्यक् प्रवृत्तिमातन्वते, प्रवृत्तानां च संयमप्रकर्षवशत उपजायते सकलकर्म्मक्षयान्निःश्रेयसावाप्तिरिति, उक्तं च- " सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियाssसक्ता विघ्नेन, गच्छन्ति परमां गतिम् ॥ १ ॥” इति, अभिधेयं जीवाजीवस्वरूपं तच्च प्राक् प्रदर्शितनामव्युत्पत्तिसामर्थ्य मात्रादवगतम् । सम्बन्धों द्वेधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा-वचनरूपापन्नं प्रकरणमुपायः तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, तं चाग्रे स्वयमेव सूत्र - कृदभिधास्यति । इदं च प्रज्ञापनाख्यमुपाङ्गं सम्यग्ज्ञानहेतुत्वादत एवं परम्परया मुक्तिपदप्रापकत्वात् श्रेयोभूतम्, अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय खतो मङ्गलभूतस्याप्यस्यादिमध्यावसानेषु मङ्गलमभिधातव्यम्, आदिमङ्गलं ह्यविघ्नेन शास्त्रपारगमनार्थ, मध्यमङ्गलमवगृहीतशास्त्रार्थस्थिरीकरणार्थम्, अन्तमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्यवच्छेदार्थ, उक्तं च- "तं' मङ्गलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्थत्थाविग्घपारगमणाय निहिं ॥ १॥ तस्सेव य थेज्जत्थं मज्झिमयं अन्तिमपि तस्सेव । अव्वोच्छित्तिनिमित्तं १ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं शास्त्रार्था ( स्त्रस्या ) विघ्नपारगमनाय निर्दिष्टम् ॥ १ ॥ तस्यैव च (तु) स्थैर्यार्थ मध्यमन्यमपि तस्यैव । अव्युच्छित्तिनिमित्तं + प्रदर्शितमेव व्यु० प्र० Jain Educationonal For Personal & Private Use Only nelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy