________________
भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि च एकाकिविचरणसमर्थः इच्छा वा तस्य तथारूपा जायते तत एकाकी विहरति, अन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं तम्य न भवति तर्हि नियमाद्दुरुसन्निधौ गत्वा लिङ्ग प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, तथा चोक्तम्-"पुत्बाहीयं सुयं से हवइ वा न वा, जइ से नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवजइ गच्छे य विहरइत्ति, अह पुवाधीयसुयसम्भवोऽस्थि तो से लिङ्गं देवया पडियच्छइ गुरुसन्निहे वा पडिवज्जइ, जइ य एगविहारविहरणसमत्थो इच्छा वा से तो एको चेव विहरह. अन्यथा गच्छे विहरइ"त्ति प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि. उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति लिङ्गरहितो वा कदाचिद्भवति, तथा चोक्तम्-“पत्तेयबुद्धाणं पुवाहीयं सुयं नियमा हवइ, जहन्नेणं इक्कारस अङ्गा, उक्कोसेणं भिन्नदसपुवा,लिङ्गं च से देवया पयच्छइ, लिङ्गवजिओ वा भवइ, जओ भणियं-रुप्पं पत्तेयबुद्धा" इति । तथा बुद्धा-आचार्यास्तैबोंधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः। एते च सर्वेऽपि केचित्स्त्रीलिङ्गसिद्धाः, स्त्रिया लिङ्गं स्त्रीलिङ्गं,स्त्रीत्वस्योपलक्षणमित्यर्थः, तच त्रिधा, तद्यथा-वेदः शरीरनिवृत्तिनेपथ्यं च, तत्रेह शरीरनिवृत्त्या प्रयोजनम् , न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभावात् , नेपथ्यस्य चाप्रमाणत्वात् , आह च नन्द्यध्ययनचूर्णिकृत्-"इत्थीए लिङ्ग इथिलिङ्गं,इत्थीए उवलक्खणंति वृत्तं भवइ,तं च तिविहं-वेदो सरीरनिवित्ती नेवत्थं च, इह सरीरनिवत्तीए अहिगारो, न वेयनेवत्थेहिं"ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org