Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 8
________________ षण्णतीथतीर्थकरत्वनिदानमुन्यन्नदानजन्यपूर्वपुण्यप्राग्भारप्रकटितैश्वर्यश्रीमच्छालिवाहनप्रबन्धसंबन्धं तितनिषवस्तत्प्राग्भवीयक्लान्ततान्तवृत्तान्तकथनगर्भान्तिमातिथिसंभागवतांशप्रभाव प्रकटयन्तस्ततोनुसंदधुद्धितीयं महाप्रबन्धम् । इत्थमाद्यन्तव्रतांशसू. चितोचितद्वादशव्रतानां सेतरकष्टानुष्ठानानामपि शीलव्रते सत्येव साफल्यं प्रफुल्लयन्तः श्रीमहाकालमहादेवदत्तमालवदेशकन्यकुब्जेश्वरसंक्षिप्तचरितकथनपूर्वकमणालवतीमायामोहितमुञ्जमहाराजचरितमुदाहरणीभूतमुपन्यस्यन्तो गूर्जरेश्वराग्रगण्यागण्यपुण्यभाजा वनराजादीनां चञ्चच्चौर्यचटुलचित्तोर्जितार्जितकुलकलङ्ककलितचरितोचारणेन चादत्तादानब्रह्मचर्योद्भताद्भुतप्रभावं प्रकाशयांचक्रः । ससर्प च समाप्ति प्रथमसर्गोऽप्यत्र । ततश्च प्रासपुरुपुरंदरसंपदोऽपि पृथ्वीपतयो मृषावादेन नितरां पराभूतिपदं प्रयान्तीति प्रतिपादयन्तः काशीशकर्णराजभोजराजभीमानां महादानिनां चरितेषु " पराभवे प्रतिज्ञातां प्रणतिमकुर्वतो मालवेशस्य " मालवोऽपि स्थितेरपतदिति परिहाररूपामसत्यस्य परां कोटिमुट्टीकयन्तोऽणूनामनणूनां व्रतानां च कर्तव्यतां कीर्तयन्तोऽत्र द्वितीयसर्गान्तं तेनुः ॥ तदनु तेषामपि (व्रतानामपि ) निश्चलनियतनीतिनियन्त्रणामन्त्रणत्वात्तद्वद्विद्वनिष्ठषण्णवतिराजगुणविराजमानसिद्धराजप्रबन्धं चित्रचरित्रं सूत्रयामासुः, सर्ग: स्तृतीयोऽप्यतीतोऽत्र ॥ तदनु नीतिरपि परसत्तानिरपेक्षस्वशयशौर्यशालिनामेव शीलतीति शीलशौर्यशालिशीघ्रसमग्रसाहसहसितशतशक्तिसक्तशकशक्तिव्यक्तीकृतस्वकृतसुकृतकृतिकृत्यकुमारपालमहीपालप्रबन्धं धियाध्यक्षधृतमध्यगासिद्रुः, तत्र चतुःसर्गेषु सत्स्वपि समाप्तश्चतुर्थः सर्गः ॥ तदपि ( शौर्यमपि ) स्वस्वेष्टदेवतादृढपर्युपासनयैवेत्युक्तानुक्तकमनीयप्रशं. सनीयपरमाईताहणीयनरचरित्रप्रचितप्रकीर्णकप्रबन्धान्द्रव्यभावभेदभिन्नात्मपरमात्मपूजाप्रभावाविर्भावान्तांस्तदुपष्टम्भकावान्तरप्रबन्धसहितानपुनरागमनाय पञ्चत्वं प्राप्तानिव पञ्चमसर्गान्तान्प्राहुरिति विस्तरभयात्संक्षिप्ततरापि प्रस्तावना प्राज्ञैः प्रज्ञया प्रकर्षपदवी दवीयसीमपि प्रापणीयेति प्रार्थना ॥ मुम्बापुरीयसर्वविद्योत्तेजकालये । (यूनिवर्शिटी) १४.१०.१८८८ ख्रिष्ट. शास्त्री रामचन्द्र दीनानाथ. संवत् १९४४ विजयादशम्याम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 258