________________
प्रबन्धचिन्तामणिः ।
[प्रथमः
१॥अथ विक्रमाप्रबन्धः॥ १ अन्त्योऽप्याद्यः समजनि गुणैरेक एवावनीशः
शौर्यौदार्यप्रभृतिभिरिहोतिले विक्रमार्कः । श्रोतुः श्रोत्रामृतसवनवत्तस्य राज्ञः प्रबन्धं संक्षिप्योचैर्विपुलमपि तं वच्मि किञ्चित्तदादौ ॥
तथाहिअवन्तिदेशे सुप्रतिष्ठाननामनि नगरेऽसमसाहसैकनिधिर्दिव्यलक्षणलक्षितो' विक्रमादिगुणैः संपूर्णो विक्रमनामा राजपुत्र आसीत् । स पुनराजन्मदारिद्योपगुतोऽप्यतिनीतिपरः सन्परःशतैरप्युपायैाननुपलभमानः कदाचिद्भट्टमात्रमित्रसहायो रोहणाचलं प्रति प्रतस्थे । तत्र तदासन्ने प्रवरनामनि नगरे कुलालस्यालये विश्रम्य प्रभातसमये स भट्टमात्रेण खनित्रं याचितः प्राह । अत्र खनीमध्यमध्यास्य प्रातः पुण्यश्रवणपूर्व ललाटं करतलेन संस्पृश्य हा दैवमित्युदीरयन्घाते पातिते सति दुर्गतो यथाप्राप्त्या रत्नानि लभते । स वृत्तान्तममुं तस्मात्सम्यगवगम्य विक्रमेण तद्दन्यं कारयितुमक्षमस्तान्युपकरणानि सँहादाय रत्नखननाथ खनीमध्ये प्रहारोघतं विक्रममभिदधे । यत्कश्चिदवन्त्याः समागतो वैदेशिकः स्वगृहे कुशलोदन्तं पृष्टो भवन्मातुः पञ्चत्वमाचरव्यौ । तत्तप्तवज्रसूचीनिभं वचो निशम्य ललाटं करतलेनाहत्य हा दैवमित्युच्चरन् खनित्रं करतलाचिक्षेप । तेन खनित्राग्रेण विदारितायां भुवि देदीप्यमानं सपादलक्षमूल्यं रत्नं प्रादुरासीत् । भट्टमात्रस्तदादाय विक्रमेण सह
१ अन्तो B २ अवन्तिदेशे उज्जयिनीपूर्या B ३ कमविक्रमादिगुणैः D. कमविक्रमादि B पराक्रमविक्रमादि गुणैः ।४ णों भर्तृहरिबन्धु: C ५ द्रुतः परशतैः BH ६ ऑनलभमानः B ७ भट्टमात्रसहायो A B H ८ प्रवरनाम्नि प्रवरनगरे A BL ९ खनीमध्यं प्राप्तः पुण्यश्रवणात्पूर्व H पुण्यश्रवणात्पूर्व A पुण्यश्रवणापूर्व B १० समादाय A H आदाय B ११ तात कश्चित् A H देव कश्चित् B. १२ प्रादुरासीत् । भाग्येन किं न घटते यतः यद्यपि कृतसुकृतशतः प्रयाति गिरिकन्दरान्तरेषु नरः।
करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥ १॥ भ B
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org