________________
श्रीः
प्रबन्धचिन्तामणिः
॥ ॐ नमः श्रियै ॥ * श्रीस्वामिने नमः ॥ श्रीनाभिभूर्जिनेः पातु परमेष्ठी भवान्तकृत् । श्रीभारत्याश्चतुर्द्वारमुचितं यच्चतुर्मुखी ॥ १ ॥ नृणामुपलतुल्यानां यस्य द्रावकरः करः । ध्यायामि तं कलावन्तं गुरुं चन्द्रप्रभं प्रभुम् ॥ २ ॥ गुम्फन्विधूय विविधान्सुखबोधाय धीमताम् । श्रीमेरुतुङ्गस्तद्गद्यैबन्धाद्ग्रन्थं तनोत्यमुम् ॥ ३ ॥ रत्नाकरात्सद्गुरुसंप्रदायात्प्रबन्धचिन्तामणिमुद्दिधीर्षोः । श्रीधर्मदेवः शतघोदितेतिवृत्तैश्च साहाय्यमिह व्यधत्त ॥ ४ ॥ श्रीगुणचन्द्रगणेशः प्रबन्धचिन्तामणिं नवं ग्रन्थम् । भारतमिवाभिरामं प्रथमादर्शे प्रदर्शितवान् ॥ ५ ॥ भृशं श्रुतत्वान्न कथाः पुराणाः प्रीणन्ति चेतांसि तथा बुधानाम् । वृत्तैस्तदासन्नसतां प्रबन्धचिन्तामणिग्रन्थमहं तनोमि ॥ ६ ॥ बुः प्रबन्धाः सुधियोच्यमाना भवन्त्यवश्यं यदि भिन्नभावाः । ग्रन्थे तथाप्यत्र सुसंप्रदायाब्धे न चर्चा चतुरैर्विधेया ॥ ७ ॥
* श्रीसर्वज्ञाय नमः B. १ श्रीऋषभदेवः २ श्रीभारत्योरिति मुद्रितपुस्तके व्याख्या व टिप्पण्याम् ॥ " मणिरत्नमय सुवर्णमयरौप्यमयदुर्गत्रये समवसरणे चतुर्दिक्षु द्वारस्य विद्यमानत्वाच्छ्रियश्चतुर्द्वारमुचितं चतुस्त्रिंशदतिशयप्रभावात्सर्वाभिमुख्यत्वेनदेशनां ददानस्य तीर्थकरस्य भारत्याश्चतुर्द्वारमुचितं यत्सम्बन्धिनी श्रीभरती च चतुर्मुखी जैनशास्त्रे प्रसिद्धा " ३ प्रन्थान् AB ४ सय B५ प्रथमोपरोधवृत्तेश्च P श्रीधर्मदेवैः शतधोदितेतिवृत्तैश्च A ६ ऽत्रदर्शितवान् A विनिर्मितवान् B saनिर्मितवान् L ७ स्वधियो B ८ सुसंप्रदायारब्धे A सुसंप्रदायदृष्टे B
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org