________________
वर्तमानसंस्करणविषयेऽऽदर्शादिनिरूपणम्
१ प्रथम संपादकेन A संज्ञया सूचितं पीटर्सनसाहेबसंगृहीतं नं. ६१७ सन १८८४-८६ पुस्तकं भाण्डारकर इन्स्टीट्युटतः समानीय मया पुनरप्यव लोकितं a संशया च निर्दिष्टम् । पाठान्तराणि च मूलपुस्तकादुद्धृतानि ।
२ प्रथमसंपादकेन B स्थाने स्थापितं न मया दृष्टं b संशया बहुधा क्वचिच प्रमादवशत: B संशयापि निर्दिष्टम् ।
३-४ प्रथमसंपादकेन C, D (अथवा d ) संज्ञाभ्यामुधृतानि पाठान्तराणि मयापि तथैव स्थापितानि पुस्तके च न दृष्टे ।
५ प्रान्ते A संज्ञया यस्य पाठान्तराणि निर्दिष्टानि तद् विमलोपाश्रयस्थमपि पुस्तकं न मयाऽवलोकितं तस्य पाठान्तराणि च मुद्रितपुस्तकमनु A संज्ञया प्रदत्तानि ।
६ फारबससाहेबसंगृहीतं तृतीयप्रकाशपर्यन्तं तदानीं मुम्बापुरीय रो. ए. सोसाइटीस्थमिदानीं च श्रीफार्बसगुजरातीसभायाः संग्रहालयस्थं प्रथमसंपादकेन B संज्ञया निर्दिष्टं मयापि तयैव संज्ञयोल्लिखितमवलोकितमपि ।
७ मुम्बापुरीय रो. ए. सोसाइटीस्थं डा. भाउदाजी संग्रहस्थमर्वाचीनमपिशुद्धं संपूर्ण च डा. भाउदाजी शर्मभिः स्वयं संशोधितं वि. सं. १९१५ वर्षे प्राचीन पुस्तकादवतारितं १२४ पृष्ठात्मकं (प्रत्येकपृष्ठं 111x6 inches ) पाठान्तराण्यतः H संशयोद्धृतानि ।
८ पुण्यपत्तनस्थभांडारकर इन्स्टीट्यूटात्प्राप्तमेकं नं. २४९।१८७३-७४ वर्षीयफुलस्केपपत्रस्थमाधुनिकं सं. १९३० वर्षे लिखितं २४० पृष्ठात्मकं नाति शुद्धं L संशया स्थापितम् ।
९ पुनश्च प्रबन्धचिन्तामणिग्रन्थस्यांग्लभाषानुवादका टोनीमहाशयेन इन्डीआआफीसपुस्तकालयस्थबुल्हरहस्तप्रत २९६ संज्ञकादुद्धृतानि a संशया च सूचितानि पाठान्तराणि मया तस्मादेवानुवादात् K संशया संगृहीतानि ।
१० सद्गतेन फार्बससाहेबेन प्र. चिं. ग्रन्थस्यांग्लानुवाद: १८४९ वर्षे कृतस्तस्यैव हस्ताक्षरैलिखितस्तृतीयप्रकाशमारभ्य समाप्तिपर्यन्तः श्रीफार्बसगुजराती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org