Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 11
________________ ( ६ ) सभासंग्रहालये वर्तते । अस्य मूलपुस्तकमपि संपूर्ण प्रायः शुद्धं पीटर्सन भाउदाजी ( & H ) पुस्तकयोः समकक्षीपं भवेदिति भाति । एतस्माच्च M संज्ञया पाठान्तराणि कचित्संगृहीतानि । ११ पुरातत्वविदा श्रीजिनविजयजीमुनिना संपादयितुमारब्धे प्रबन्धचिन्तामणिग्रन्थे F संज्ञकादादर्शादवतारितानि पाठान्तराणि दृष्ट्वा ततोऽप्यावश्यकः संग्रह: F संज्ञयैव कृत: । श्रीरामचंद्रदीनानाथशास्त्रिणा परेण यत्नेन संपादित इ. स. १८८८ वर्षे मुद्रितं पुस्तकं P संज्ञया निर्दिष्टम् | मुख्याधारस्थाने च स्थापितम् । पूर्वोक्तानामादर्शानां परस्परं तुलनं कृत्वा तत्तदादर्शस्थ पाठानां न्यूनाधिक्यं च दृष्ट्वा यदि विविच्यते तदा ग्रन्थस्यास्योपलभ्यमानादर्शानां संप्रदाय द्वैविध्यं दृश्यते । एकः संप्रदाय: a संज्ञिते पीटर्सनसंगृहीते नं. ६१७ पुस्तके ( कदाचित् B संज्ञितेऽपि ) समुपलभ्यते । द्वितीयश्च तदितरेषु सर्वेषु 1 उपलभ्यमानेषु सर्व पुस्तकेषु पश्चात्प्रक्षिसोंऽशो वर्तत एव किन्तु a, A, B, C, D F' आदर्शेषु प्रक्षिप्तांशस्य बाहुल्यं वर्तते ( दृश्यतां पृ. ९, १३, १४, १९, ४४, ४६, ४८, ५०, इत्यादि । ) ग्रन्थस्यास्य संपादन कार्ये मेरुतुङ्गेन कथितप्रथमादर्शमुपलब्धादर्श संशोधनद्वारा प्राप्तुं कृतेऽपि प्रयत्नेऽयं ग्रन्थः प्रथमादर्शप्रतिबिम्ब इति वक्तुं न शक्यते । तस्य निकटवर्त्यवश्यं भवेत् । परीक्षकास्तत्र प्रमाणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 258