________________
( ६ )
सभासंग्रहालये वर्तते । अस्य मूलपुस्तकमपि संपूर्ण प्रायः शुद्धं पीटर्सन भाउदाजी ( & H ) पुस्तकयोः समकक्षीपं भवेदिति भाति । एतस्माच्च M संज्ञया पाठान्तराणि कचित्संगृहीतानि ।
११ पुरातत्वविदा श्रीजिनविजयजीमुनिना संपादयितुमारब्धे प्रबन्धचिन्तामणिग्रन्थे F संज्ञकादादर्शादवतारितानि पाठान्तराणि दृष्ट्वा ततोऽप्यावश्यकः संग्रह: F संज्ञयैव कृत: ।
श्रीरामचंद्रदीनानाथशास्त्रिणा परेण यत्नेन संपादित इ. स. १८८८ वर्षे मुद्रितं पुस्तकं P संज्ञया निर्दिष्टम् | मुख्याधारस्थाने च स्थापितम् । पूर्वोक्तानामादर्शानां परस्परं तुलनं कृत्वा तत्तदादर्शस्थ पाठानां न्यूनाधिक्यं च दृष्ट्वा यदि विविच्यते तदा ग्रन्थस्यास्योपलभ्यमानादर्शानां संप्रदाय द्वैविध्यं दृश्यते । एकः संप्रदाय: a संज्ञिते पीटर्सनसंगृहीते नं. ६१७ पुस्तके ( कदाचित् B संज्ञितेऽपि ) समुपलभ्यते । द्वितीयश्च तदितरेषु सर्वेषु 1 उपलभ्यमानेषु सर्व पुस्तकेषु पश्चात्प्रक्षिसोंऽशो वर्तत एव किन्तु a, A, B, C, D F' आदर्शेषु प्रक्षिप्तांशस्य बाहुल्यं वर्तते ( दृश्यतां पृ. ९, १३, १४, १९, ४४, ४६, ४८, ५०, इत्यादि । )
ग्रन्थस्यास्य संपादन कार्ये मेरुतुङ्गेन
कथितप्रथमादर्शमुपलब्धादर्श
संशोधनद्वारा प्राप्तुं कृतेऽपि प्रयत्नेऽयं ग्रन्थः प्रथमादर्शप्रतिबिम्ब इति वक्तुं न शक्यते । तस्य निकटवर्त्यवश्यं भवेत् । परीक्षकास्तत्र प्रमाणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org