Book Title: Prabandh Chintamani Author(s): Merutungacharya, Durgashankar K Shastri Publisher: Farbas Gujarati Sabha View full book textPage 7
________________ ॥ प्रथमसंस्कर्तुः प्रस्तावना ॥ एषोऽञ्जलि: सममस जनसजनौ तौ वन्दे नितान्तकुटिलप्रगुणस्वभावौ । एकं भिया निरभिसंधितवैरिभूतं प्रीत्या परं परमनिर्वृतिपात्रभूतम् ॥ १ ॥ भक्त्याख्यदशमेनाढ्या रसा नव निरूपिताः । अद्भुतोङ्गी तदङ्गानि यथास्थानं विभाव्यताम् ॥ २ ॥ ग्रन्थादौ प्रेक्षावतां प्रवृत्त्यर्थ मङ्गलविषयप्रयोजनसंबन्धाधिकारिणस्तथोपो. द्घातप्रसङ्गावसराभिधानास्तिस्रः संगतीरपि सप्तभिः पद्यैः प्रबन्धकाराः प्रकटयामासुः । यथा आंदितीर्थकर्तुर्भगवतश्चतुस्त्रिंशदतिशयानपि चतुर्भिर्मूलातिशयैपियन्तस्तेन वक्ष्यमाणाः प्रततप्रबन्धा अपि संक्षिप्य वक्ष्याम इति ध्वनयन्तः स्वस्य च तपोगच्छेतरत्वद्योतकं स्वेष्टदेवगुरुनमस्कारात्मक मङ्गलमादिमध्यावसानेष्वत्र सत्रितमिति सूचयन्त आद्यपद्यमाहुः । ___ अथोपलतुल्यकलावञ्चन्द्रप्रभशब्दैः पामरविषयिमुमुक्षणामभव्यवर्जितानां तत्तद्योग्याधिकारप्रबन्धोद्घाटनापदेशोपदेशेन हेयोपादेयतां प्रबोधयन्तो द्वितीयं पy पेठुः । ततोऽत्रानेकप्रबन्धसिन्धून्मथनोत्पन्नपीयूषपरिवेषणदेशीयसुखावबोधप्रयोजन. संयोजनमपि जनयामासुः । तथा परंपराप्राप्तगुरुसंप्रदायादीयमानविवक्षितवस्तुविषयविषयीकृतग्रन्थनामनिवेदनमप्यन्वर्य समर्थयासासुः । तथैव सहायकधर्मदेवगुणचन्द्रनामग्रहणेन च प्राचीनमहापुरुषचरित्रश्रवणानन्तरासन्नसच्चरितशुश्रषणाग्रहग्रथितोपायोपेयभावसंबन्धबन्धुरं प्रबन्धचिन्तामणिसंचयं चिक्युः ।। तत्र तावत्सर्वेषु सच्छास्रेषु साक्षात्परंपरया वा परमपुरुषार्थसाधनस्य साधीयस्त्वेन निर्देशनं निर्विवादं विश्वेषां विदुषां वचनेषु वर्वति । अत्रभवन्तो भगवन्तः शिष्यशेमुषीनिसर्गसर्गनमेरवोपि मेरुतुङ्गाः भस्मीकृतभस्मग्रहणशक्तिं सकलजैनीयशास्त्रसिद्धान्तोपनिषद्भूतं प्रबन्धचिन्तामणिनामानं ग्रन्यं जग्रन्थुः । तत्र तावदुक्तव्रतेष्वप्यहिंसाव्रतस्यादित्वात्तस्यापि दयामूलत्वाद्दयापि प्राज्यपरदुःखदलनेन दृश्यमानेति निदर्शयन्त: परदुःखभञ्जनविरुदधारिणः श्रीविक्रमार्कस्य प्रबन्धं प्रथमं बबन्धुः । ततो विशिष्टशिष्टकृष्टिश्रेत्रिषष्टिशलाकापुरुषान्तिमासननि. Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 258