Book Title: Panchsutravchuri
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ 54 इहलोकाद्यपेक्षया (आसंसा०), मोक्षार्थी (आययट्ठी) ॥ स एवंभूतस्तत्सूत्रमुपैति (स तमुवेइ०) ।। सर्वथा-याथातथ्येन ।। यदुतैवमधीतं सम्यग् नियुक्तं (एयं धीराण०) । अन्यथाऽविध्यध्ययनेऽनियोगो विपर्यासो भवति (अण्णहा०)।। विधिनाऽनाराधनायां न किञ्चिदिष्टमोक्षांदिफलं, तत्त्वतस्तदनारम्भादेव । (अणाराहणाए न किंचि, तदणा०) || इहैव लिङ्गमाह - अत्राऽनाराधनायां, मार्गदेशनायां तात्त्विकायां शृण्वतो दुःखं भवति (एत्थ मग्ग०) || उक्तं च - "शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः" || तदवधीरणा मनाग लघुतरकर्मणो न दुःखम् । तथाऽत (तत्-) प्रतिपत्ति:ततोऽपि लघुतरकर्मणो नावधीरणा ।। ततः किम् ? इत्याह-नैवमनाराधनायाऽधीतमधीतं सूत्रम् । अवगमस्य सम्यग्बोधस्य विरहात् । (नेवमहीयमहीयं०)।। मैषा मार्गगामिन एकान्तमनाराधना भवति, सम्यक्त्वादियोगे सर्वथाऽसक्रियाऽयोगात् (न एसा मग्गगामिणो) ॥ ___अनर्थमुखा, उन्मादादिभावेन (विराहणा अणत्थमुहा) । इयं गुरुतरदोषापेक्षयाऽर्थहेतुः पारम्पर्येण मोक्षाङ्गमेवेत्यर्थः । तस्य-मोक्षगमनस्यैवारम्भात् , कण्टकज्वरमोहोपेतमार्गगन्तृवत् । (अत्थहेऊ, तस्सारंभओ धुवं) ।। उक्तं च "मुनेर्मार्गप्रवृत्तिर्या सदोषाऽपि गुणावहा। कण्टकज्वरसंमोह - युक्तस्येव सदध्वनि ॥१॥" एतद्भावे लिङ्गमाह - अत्र विराधनायां सत्यां मार्गदेशनायां तात्त्विकायां अनभिनिवेशः शृण्वतो भवति, हेयोपादेयतामधिकृत्य (एत्थ मग्गदेसणाए अणभिनिवेसो) ॥ तथा प्रतिपत्तिमात्रं मनाग् विराधकस्य, नाऽनभिनिवेशः ।। तथा क्रियारम्भोऽल्पतरविराधकस्य, न प्रतिपत्तिमात्रम् ।। ___ एवमपि विराधनयाऽधीतं सूत्रमधीतं, अवगमलेशयोगहेतोः (एवं पि०)॥ अयं-विराधक: सबीजो नियमेन, सम्यक्त्वादिबीजा(ज)युक्तत्वात् (अयं सबीओ०) ॥ यतो मार्गगामिन एवैषा प्राप्तबीजस्येति भावः, न सामान्येन, किं तर्हि ? अपायबहुलस्य – निरुपक्रमक्लिष्टकर्मवतः (मग्गगामिणो खु०) । ___ निरू(र)पायो यथोदितो मार्गगामीति प्रक्रमः (निरवाए जहोदिए) ।। एतदेवाह सूत्रोक्तकारी भवति सबीजो निरू(र)पायः (सुत्तुत्तकारी) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16