Book Title: Panchsutravchuri Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ 55 सामान्येन (पवयणमाइ०) ॥ विशेषेण (पंचसमिए०) ॥ अनर्थपर एतत्त्यागः - प्रवचनमातृत्यागः । अव्यक्तस्य-भावबालस्य । (अणत्थपरे०) ॥ सम्यगेतद् विजानातीति योगः ॥ शिशुर्हि जननीत्यागाद् विनश्यति (सिसुजणणि०) । अत्र-भावचिन्तायां (वियत्ते एत्थ०) ॥ एतत्प्रवचनमातृफलभूतो भावपरिणत्या ।। (एयफलभूते) | सम्यगेतदनन्तरोदितं विजानाति (सम्ममेयं०) ।। एतदेवाह-द्विधा परिज्ञा, बोध-तद्गर्भक्रियारूपा, ज्ञ-प्रत्याख्यानभेदात् (दुविहाए) ॥ आश्वासप्रकाशरूपं द्वीपं दीपं च 'विजानाती'ति वर्तते । इह भवाब्धौ आश्वासदीपः, मोहान्धकारे प्रकाशदीपश्च । आद्यः स्पन्दनं प्लवनं तद्वान् , इतरश्च द्वितीयोऽपि स्थिराऽस्थिरभेदः । (तहा आसासपयासदीव) ।। असन्दीन-स्थिरौ तो क्रमात् क्षायिकज्ञान-चारित्ररूपौ, तदर्थमुद्यच्छति (असंदीणथिरत्थमुज्जमइ) ॥ फलं प्रति (अणूसगे) ॥ नि:सपत्नश्रामण्यव्यापारः (असंसत्त०)॥ निर्वाणसाधिकां (भावकिरियं) ॥ व्याधितसुक्रियाज्ञातेन (वाहियसुकिरियानाएण) ॥ यद् तथा - न कण्डूलकण्डूयनकारिवद् विपर्यस्तः (विण्णाया सरूवेण) ॥ वेदनाया इति प्रक्रमः (निविण्णे०) ॥ तं व्याधिं (तमवगच्छिय) । देवतापूजादिप्रकारतः (जहाविहाणओ) ॥ ___ आरोग्यप्रतिबन्धाद्धेतोः (तप्पडिबंधाओ) ॥ शिरावेध-क्षारपातभावेऽपि व्याधिशमाद् यदारोग्यं तदवबोधेन इष्टस्यारोग्यस्य निष्पत्तेर्हेतोरनाकुलः ।। (सिराखाराइजोगेण० इट्ठनिष्फत्तीओ) ।। तं सुगुरुं कर्मव्याधिं चाऽवगम्य पूर्वं तृतीयसूत्रोक्तविधानेन प्रतिपन्नः सुक्रियां-प्रव्रज्याम् (तमवगच्छिय पुव्वुत्त०) .॥ चरणारोग्यप्रतिबन्धविशेषात् (तप्पडिबंधविसेसओ) ॥ कुशलाशयस्य क्षायोपशमिकभावस्य वृद्धया स्थिरः - चित्तस्थैर्येण सदास्तिमितो भावद्वन्द्वविरहात् प्रशान्तः (कुसलसिद्धीए थिरासयत्तेण) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16