Book Title: Panchsutravchuri
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
58
महोदयोऽसौ ।। एतदेवाऽऽह-बीजबी० । बीजं सम्यक्त्वं, बीजबीजं तदाक्षेपकं शासनप्रशंसादि, एतन्न्यासेन | कान्तिवीर्यादियुक्तः परं परार्थं प्रत्यवन्ध्यशुभचेष्टः, समन्तभद्रः सर्वाकारसम्पन्नतया ॥
तच्चिकित्सासामर्थ्यवत्त्वात् (रागामयवेज्जे०) ॥ संवेगसिद्धिकरस्तद्धेतुयोगेन । सत्त्वसुखहेतुतया (अचिंत०) ॥
स प्रव्रजित एवं परंपरार्थसाधक: करुणादिभावतः (से एवं परंपरत्थ०)।।
सर्वोत्तमं-तीर्थकरादिजन्म चरमभवहेतुं मोक्षहेतुमित्यर्थः (सव्वुत्तमं) ।। अविकलपरपरार्थनिमित्तं-अनुत्तरपुण्यसम्भाराभावेन ||
सिध्यति-सामान्येनाऽणिमाद्यैश्वर्यं प्राप्नोति ॥ बुध्यते-केवली भवति ।। मुच्यते-भवोपग्राहिकर्मणा || परिनिर्वाति-सर्वतः कर्मविगमेन ॥ इति प्रव्रज्यापरिपालनाविधिवाच्यं सूत्रम् ॥४||
स(से)-प्रव्रज्याकारी एवं-उक्तेन प्रकारेणाऽभिसिद्धः सन् परमब्रह्मरूपः सन् , मंग० गुणोत्कर्षयोगेन, जम्मज० निमित्ताभावेन । अनुबन्धशक्तिवर्जितोऽशुभमङ्गीकृत्य । स्वभावसंस्थितः -सांसिद्धिकधर्मवान्। ज्ञेयानन्तत्वाद् ज्ञानदर्शनयोरनन्तत्वम् ॥ . ____ अनित्थंस्थं संस्थानं यस्या अरूपिण्याः सत्तायाः सा तथा (अणित्थंत्थसंठाणा) । सर्वेच्छाव्यपगमेन (निरवेक्खा) । यतोऽसंयोगिक एष आनन्द: सुखरूप: अत एव निरपेक्षत्वादेव परो मतः (असंजोगिए एसाणंदे०)॥
अपेक्षाऽनानन्दः, औत्सुक्यदुःखत्वात् (अवेक्खा०)। अपेक्ष्यमाणाप्त्या तन्निवृत्तौ दोषमाह-संजो० ॥ अफलं फलमेतस्मात् संयोगात् (अफलं०) ॥ तत्-सांयोगिकफलं (खु तं)। यतो मोहाद् विपर्ययोऽत एवाऽफले फलबुद्धिः (जमेत्तो०)। ततो-विपर्ययात् (तओ०) १ एष-मोहः (एस भाव०)। तथाहि -
"अन्नाणाओ रिवू अन्नो पाणिणं नेव विज्जइ। इत्तोऽसक्किरिआ तीए अणत्था विस्सओमुहा ॥" १॥ इत्यादि ।।
यदि संयोगो दुष्टः कथं सिद्धस्याऽऽकाशेन स न दुष्टः ?, इत्याशङ्क्याऽऽह-नाकाशेन संयोगोऽस्य सिद्धस्य । यतः स सिद्धः स्वरूपसंस्थित: (नागासेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16