Book Title: Panchsutravchuri
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
57
तेजोलेश्याऽत्र चित्तसुखलाभलक्षणा । ततः शुक्लः - अमत्सरी कृतज्ञः सदारम्भी हितानुबन्धः, शुक्लाभिजात्यश्चैतत्प्रधानो भवति । (सुक्को सुक्काभि०)। प्रायश्छिन्नकर्मानुबन्धः तद्वेदयन् नान्यद् बघ्नाति । प्रायोग्रहणादचिन्त्यत्वात् कर्मशक्तेः कदाचिद् बध्नात्यपि (पायं छिन्नकम्माणुबंधे)॥
भगवद्वचःप्रतिकूल-संसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपाम् (लोगसण्णं)।
लोकाचारप्रवाहनदी प्रति (पडिसोयगामी) अनुस्रोतोनिवृत्तः, सदा शुभयोगः - श्रामण्यव्यापारसङ्गतः, एष योगी व्याख्यातो भगवद्भिः (एस जोगी०)।।
यथागृहीतप्रतिज्ञ आदित आरभ्य सम्यक् प्रवृत्तेः । सर्वोप० निरतिचारत्वेन (सव्वोपहा०)।
शुद्धभवस्याऽभवसाधकत्वे निदर्शनमाह - भोग० । न रूपादिविकलस्यैताः सम्यग् भवन्तीति ।। उक्तं च - "रूपं वयो वैचक्षण्य-सौभाग्य-माधुर्यैश्वर्याणि भोगसाधनम्" इति ।। ततस्ताः संपूर्णाः प्राप्नोति सुरूपादिकल्पाद् भवाद् भोगक्रिया इत्यर्थः ।। (तओ ता०) ॥ अवि० कारणात् (अविगलहेउभावओ) ।। असंक्लि० (असंकिलिट्ठसुहरूवाओ) ||
न चान्या उक्तलक्षणभोगक्रियाभ्य: संपूर्णाः (न य अण्णा०) ॥ तत्त० संक्लेशादिभ्य अभयलोकापेक्षया भोगक्रियास्वरूपखण्डनेन (तत्तत्तखंडणेणं)।।
एतत् ज्ञानमित्युच्यते (एयं नाणं ति वुच्चइ)।। एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः उचितप्रतिपत्तिप्रधानाऽज्ञानालोचनेन (एयम्मि सुहजोगसिद्धी०)।। अत्र भावः प्रवर्तकः, प्रस्तुतप्रवृत्तौ सदन्तःकरणलक्षणो न मोहः । अत एवाऽऽहअधिकृतप्रवृत्तौ प्रायो विघ्नो न विद्यते, सदुपाययोगाद् इत्यर्थः । एतद्बीजमेवाहनिरनुबन्धाशुभकर्मभावेन । सानुबन्धाऽशुभकर्मणः सम्यक् प्रव्रज्याऽयोगात् ॥ आक्षिप्ताः -स्वीकृता एवैते योगा:-प्रव्रज्याव्यापारा; भावाराधनातः तथा जन्मान्तरे बहुमानादिप्रकारेण । तत आक्षेपात् सम्यक् प्रवर्त्तते, नियमनिष्पादकत्वेन । ततो निष्पादयत्यनाकुलः सन्निष्टम् ॥
निष्कलङ्गा-निरतिचारत्वेन ॥ निष्कलङ्कार्थो मोक्षः ।। ततः शुभानुबन्धायाः सुक्रियायाः सकाशात् स प्रव्रजितः साधयति परं-प्रधानं परार्थ-सत्यार्थम् , परार्थसाधनकुशलः, तैस्तैर्बीज-बीजस्थापनादि प्रकारादिप्रकारैः सानुबन्धं परार्थम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16