Book Title: Panchsutravchuri
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229624/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ तपगच्छपति-श्रीमुनिसुन्दरसूरिकृता पञ्चसूत्रावचूरिः ॥ - सं. विजयशीलचन्दसूरि 'पंचसूत्र' ए श्रीमान् हरिभद्राचार्यनो रचेलो एक मान्य तथा महत्त्वपूर्ण लघु ग्रंथ छे. एना पर कर्ता-कृत स्वोपज्ञ वृत्ति उपलब्ध छे ज. ते वृत्तिना ज आधारे, १५मा शतकमां थयेला तपागच्छीय आचार्य श्रीमुनिसुन्दरसूरिजीए अवचूरि रची छे, जेनी एक मात्र प्रति छाणी स्थित प्रवर्तक श्रीकान्तिविजयजी शास्त्रसंग्रह मां (क्र.८७२) प्राप्त छे, तेना आधारे ते अत्रे प्रस्तुत छे. जो के महदंशे मूळ वृत्तिना शब्दो ज पकडीने रचाएलुं आ सारदोहन छे. आदर्श प्रति ७ पत्रनी छे, अने संवत् १९६२मां ज लखाएली छे. परंतु, तेनो आधार होय एवी प्रति, क्यांक-कोई भंडारमा, होवी ज जोईए, अने ते प्राचीन होवी जोईए. प्रवर्तक श्रीकान्तिविजयजी महाराजनी एक विशिष्ट प्रवृत्ति ए हती के तेओनी नजरमां ज्यां पण प्राचीन अने विशिष्ट ग्रन्थ रचनाओ तथा तेनी दुर्लभ प्रति आवे, तेनी शुद्धप्राय प्रतिलिपि तेओ करावी लेता, अने पछी ते जाते वांचीने शुद्धीकरण पण करता. एथीज एम लागे छे के पंचसूत्रावचूरि नी प्रति पण तेमणे कोईक प्राचीन आदर्श उपरथी लखावी होवी जोईए. अवचूरिना प्रांते आपेली पुष्पिकाना आधारे एम लागे छे के श्रीमुनिसुन्दरसूरिजी आचार्य अथवा तो गच्छपति थया ते पूर्वे तेमणे रचेली आ अवचूरि छे. ए सिवाय "श्रीमुनिसुन्दरसूरि महोपाध्याय पादैः" एवो शब्दप्रयोग न संभवे. पञ्चसूत्रावचूरिः ॥ इह पापप्रतिघात-गुणबीजाधानादिपञ्चसूत्र्याः क्रमोऽयम्- नहि पापप्रतिघात-गुणबीजाधानं विना तत्त्वतस्तच्छ्रद्धा । न तां विना साधुधर्मपरिभावना । न चापरिभावितसाधुधर्म(स्य)प्रवज्या । न च तां विना तत्पालनयत्नः। न चाऽपालने तत्फलमिति ॥१॥ अनादिजीवस्य भव(:) संसारः । अनादिभवस्यैवानादिकर्मसंयोगनिवर्तितत्वं हेतुः । तस्यैव दुःखरूपत्वादीनि विशेषणानि – (१) जन्मजरामरणरोगशोकादिरूपत्वात् , (२) गत्यन्तरेऽपि जन्मादिभावात् , (३) अनेकभववेदनीयकर्मावहत्वात् ॥२॥ Page #2 -------------------------------------------------------------------------- ________________ 48 ज्ञानादिरूपात् ॥ (सुद्धधम्माओ) ।। मिथ्यात्वमोहनीयादि ॥ (पावकम्म०)॥ भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः । तथाभव्यत्वमिति विशिष्टमेतत् । आदिशब्दात् काल-नियति-कर्मादिग्रहः ॥ अनुभ(भा)वकारणानि ॥ (विवाग०) ।। - एभिर्हि तथास्वाभाव्यात् साध्यव्याधिवत् तथाभव्यत्वं परिपच्यते ॥३॥ मोक्षार्थिना ॥ (होउकामेणं)॥ तीव्ररो(रा)गाद्युत्पत्तौ ।। (संकिलेसे) ।। दुःकृतगर्हामेवाह – सम्यग्दर्शनादिमार्गयुक्तेषु ॥ (मग्गट्ठिएसु) ।।९।। मार्गसाधनेषु पुस्तकादिषु । अमार्गसाधनेषु खड्गादिषु । अविधिपरिभोगादि । (वितह०) ॥ क्रियया (अणायरि०) । मनसा-पापानुबन्धितया विपाकेन ।।११।। एवमेतदिति रोचितं श्रद्धया तथाविधकर्मक्षयोपशमजया ॥१३॥ अत्र व्यतिकरे मिच्छामिदुक्कडं ति ३ वारं पाठः ।। अनन्तरोदिता (एसा) ॥ ग्रन्थिभेदवत्तदबन्धरूपः (अकरण०) ।। अर्हदादीनां अनुशास्ति उदितप्रपञ्चबीजभूताम् ॥१२॥ __ अर्हदादिषु सेवाह:-अर्हदादीनां सेवाज्ञाद्यर्हः स्याम् । एतेषां प्रतिपत्तियुक्तः स्याम् । निरतिचारपारगः स्यां एतदाज्ञायाः ॥ धर्मकथादि (अणुट्ठाणं) ॥ अव्याबाधादिरूपम् (सिद्धभावं) ॥ सामान्येन कुशलव्यापारान् (मग्गसाहण०) । सूत्रानुसारेण (विहि०) । क्रियारूपेण (पडिवत्ति०) ॥ प्राय आचार्यादीनामप्येतद्वीतरागत्वमस्तीत्येवमभिधानम् ।। (वीतरागा०)।। भूचास्मि ।। अभिज्ञः स्याम् एतत्सामर्थ्येन । उचितप्रतिपत्त्या सर्वसत्त्वानां स्वहितम् ॥ वारत्रयं पाठः ।। सूत्रपाठे फलमाह - एतत् सूत्रम् ।। अर्थानुस्मरणद्वारेणाऽनुप्रेक्षमाण मा० (मानस्य) || सि० मन्दविपाकतया ।। परि० पुद्गलापसारणेन ॥ खि० निर्मूलतया ।। Page #3 -------------------------------------------------------------------------- ________________ 49 अशुभकर्मानुबन्धाः ।। निरनुबन्धं चाशुभं यच्छेषं कर्म, मन्त्रसामर्थ्येन कटकबद्धविषमिव विपाकं प्रवाहं वाऽङ्गीकृत्य भग्नसामर्थ्यमल्पफलं च स्यात् ।। सुखापनेयं तथाऽबन्धकत्वेनाऽपुनर्भावं च स्यात् ॥ आसकलीक्रियन्ते-आक्षिप्यन्त इत्यार्थः । परिपोष्यन्ते भावोपचयेन । निर्माप्यन्ते-परिसमाप्ति नीयन्ते ।। नियमेन फलदं, सुप्रयुक्त इव महागदः, अनुबन्धेन ॥ एतत् सूत्रम् ।। शास्त्रपरिसमाप्तौ मङ्गलमाह - नतनतेभ्यो देव-ऋषिवन्दितेभ्यः । ... शेषनमस्कारार्हा आचार्यादयः ।। वारत्रयं पाठः ।। छ । १ एतेषां धर्मगुणानां स्वरूपं भावतस्तथाविधक्षयोपशमेन भावयेत् ।। (भावेज्जा एएसिं सरूवं)। पीडादिनिवृत्त्या (परोवयारित्तं) । भङ्गे भगवदाज्ञाखण्डनतः (भंगदा०) । धर्मदूषकत्वेन (महामोह०) ॥११॥ भूयः ॥ शास्त्रोक्तविधिना (उचिय०) || क्रियाविशेषणं (अच्चंत०) । प्रतिपद्यते धर्मगुणान्, तद्यथा-स्थूलेत्यादि । सदाज्ञाग्राहकः स्यात् (सयाऽऽणा०) ॥ आज्ञागम उच्यते, तदध्ययनश्रवणाभ्यां ग्राहकः॥ अनुप्रेक्षाद्वारेण (आणाभावगे०) । परतन्त्रः (परतंते०) ॥ स्थूलप्राणातिपातविरत्यादीन् (गुणे) ॥ सदैवाऽविरतत्वादीन् (अगुणे०)। उदग्रसहकारित्वमधर्ममित्राणामगुणान् प्रति ॥ तत्पापानुमत्यादिना (गरहियत्तं)।। अशुभयोगपरम्परां चाऽकुशलानुबन्धात् अधर्ममित्राणां च ॥ अबोधिफलात् (एत्तो०) ॥ हिताहितदर्शनाभावेन (अंधत्त०) ।। जनकमनिष्टापातानाम् (जणग०) । Page #4 -------------------------------------------------------------------------- ________________ संक्लेशप्रधानत्वात् (अइदा० ) || परम्परोपघातभावेन (असुहा० ) ॥ अनुकर्षकान् पातादिरक्षकान् (अंधो विय०) || इतो - धर्ममित्रसेवनात् ( न इओ० ) || अदत्तायां तेषामाज्ञायां ( आणाकंखी) || दत्तायां ( आणापडि० ) ॥ प्रतिपन्नधर्मगुणानुकूलं ( पडिवन्न० ) । प्रवृत्तौ ( बहुकिलेसं ) | अङ्गारकर्मादि (समारंभं) | कस्याऽप्यसंप्रयोगे (न भावेज्ज दीणयं) | अतत्त्वाध्यवसायम् (वितहा० ) ॥ 50 अनिबद्धं विकथादि ॥ दुर्ध्यानाचारादि चतुष्प्रकारमपि (अणत्थदंडं ) || उक्तं च लौकिकेष्वपि कारणम् ॥ A "पादमायान्निधिं कुर्यात् पादं वित्ताय वर्धयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥| " निर्द्धनानां वाऽयम् || अन्यैरप्युक्तम् - "आयादर्थं नियुञ्जीत धर्मे यद्वाऽधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥२॥" अयं सा (स) धनानां वा व्ययविभागः ॥ भवस्थितिकथनशीलत्वेन ( जहासत्ति) ॥ प्रतिफलनिरपेक्षतया (अणुकंपापरे ॥ निर्ममो भावेन भवस्थित्यालोचनात् ॥ (निम्ममे० ) ॥ एवं यस्मात् तत्पालनेऽपि धर्मो जीवोपकारात् ( एवं खु०) || यतो ( S) विशेषेण सर्वे जीवाः पृथक् पृथग् वर्तन्ते, ममत्वं तु बन्ध गृहिसमुचितेषु स्मृतिसमन्वागत आभोगः स्यात् । तद् यथा- अमुगेत्यादि ( अमुगे अहं०) || अणुव्रतादिधर्मानुष्ठानविराधना ( तव्विराहणां ) || विराधनारम्भः Page #5 -------------------------------------------------------------------------- ________________ 51 (तदारंभो) ॥ आत्मानुगामुकत्वेनात्मभूतं धर्मानुष्ठानम् (एयं आयभूयं) ।। एतत् सम्यग् विधिना वर्तनम् ।। (भावमंगलमेयं) । अधिकृतसमाचारनिष्पत्तेः (तन्निप्फत्तीए) ।। अनेकयोनिभावी (पुणो पुणोऽणुबंधी) । परमानन्दो मोक्षः (परमाणंदहेऊ) ॥ प्रकाशका अर्हदादयः (एयधम्मपयासयाणं) ॥ पालकाः प्ररूपकाश्च यत्यादयः (एयधम्मपालयाणं, ०परूवयाणं) ।। प्रतिपत्तारः श्राद्धादयः (० पवज्जगाणं) ॥ भवतु ममैतत् कल्याणं (होउ ममेयं) अधिकृतधर्मप्रतिपत्तिरूपम् । यतीनामवपातकारी आज्ञाकारी (अववायकारी) ।। एतत्तदाज्ञाकारित्वम् (० च्छेयणमेयं)॥ एतस्य-धर्मस्य (एतस्स जोग्गयं) ग्रन्थ्यादिभेदेन (विसुद्धे) ॥ शुभकण्डकवृद्ध्या (विसुज्झमाण०) ॥२।। यथोदितगुणः संसारविरक्तः संविग्न इत्यादिना (जहोदियगुणे) ॥ एतं यतिधर्मम् (एयं) ।। क्रियाविशेषणम् (अपरोवता) ॥ अनुपाय एष परोपतापः ।। स्वधर्मप्रतिपत्तावपि परोपतापरूपात् (अकुसलारंभओ)॥ मातापितृप्रकारानाह- उभयलोगसफलेत्यादि । एवं से वि बोहिज्जेत्येतदन्तम् ॥ उभयलोकसफलं जीवितं, प्रशस्यत इति शेषः ॥ समुदायकृतानि कर्माणि समुदायफलानि, प्रक्रमादत्र शुभानि ; इत्यनेन भूयोऽपि योगाक्षेपस्तथा चाह – एवं सुदीर्घोऽवियोगो भवपरम्परया सर्वेषामस्माकम् (एवं सुदीहो०) ॥ अन्यथा-एवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः ॥ योग्यं चैतन्मनुजत्वम् (जोग्गं च एयं०) । स्वकार्ये धर्मलक्षणे संवरस्थगितप्राणातिपातादिच्छिद्रम् ।। (जुत्तं सकज्जे)। Page #6 -------------------------------------------------------------------------- ________________ 52 क्षणः प्रस्तावो दुर्लभः सर्वकार्योपमातीतः सिद्धिसाधकधर्मसाधकत्वेन हेतुना ॥ शक्तितोऽपि , क्रोधाद्यभावात् (संत) । निष्क्रियत्वादव्याबाधम् ॥ (अव्वाबाह) एतं संसारव्युच्छेदं (साहेमि एयं)॥ समृध्यति च मम समीहितं संसारव्यवच्छेदनं, गुरुप्रभावात् ॥ (समिज्झइ य०)॥ भार्यादीनि (सेसे वि)॥ अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया विदध्याद् यथाशक्ति तदुपकरणं- अर्थजातादि आयोपायशुद्धस्वमत्या। (अबुज्झमाणेसु)।। ततोऽन्यसम्भूतिरायः । कलान्तरादिरूप उपायः ॥ शासनोन्नतिहेतुत्वात् (धम्मप्पहाणजणणी०) ॥ अन्यथाऽनुपध एव भावत उपधायुक्तः स्यात् (अण्णहा अणु०) । उक्तं च - "निर्माय एव भावेन , मायावांस्तु भवेत् क्वचित् । पश्येत् स्वपरयोर्यत्र सानुबंधं हितोदयम् ॥१॥" तथा तथा एतद् दुःस्वप्नादिकथनेन सम्पादयेद् धर्माराधनम् (तहा तहेयं०)। मातापित्रादीनित्यर्थः (चएज्ज) ॥ अस्थानग्लानौषधार्थत्यागज्ञातेन ।। एतदेवाह - से जहेत्यादि ।। धार्याधुपलक्षणम् (अम्मापिति०) ।। अनेक: (आतङ्कः) सद्योघाती रोगः ॥ कदाचिद् भवतोऽपीत्येवंरूप औषधभावे संशयः ।। तथा-तेन वृत्त्याच्छादनादिप्रकारेण संस्थाप्य (तहा संठविय) || स्ववृत्तिनिमित्तं च ।। त्यागोऽत्यागः - संयोगफलत्वात् । अत्यागस्त्यागो वियोगफलत्वात् ।। फलदर्शिनः (एयदंसिणो) ॥ स - पुमान् ।। मात्रादीन् । Page #7 -------------------------------------------------------------------------- ________________ 53 सम्भवत्येतत् ततः पुरुषोचितमेतत् (पुरिसोचियमेयं) ॥ दार्टान्तिकमाह - परीत्तसंसार: (सुक्कपक्खिगे०)॥ अप्राप्तबीजादिपुरुषः (अपत्तबीजाइ०) ॥ 'कदाचिदोषधं सम्पादयितुं शक्यते कदाचिन्न' इत्येवंरूपा (विभासा)।। कालसहत्वं च व्यवहारतः, तथा जीवनसम्भवात् , निश्चयतस्तु न ।। सौविहित्यापादनप्रकारेण (तहा) ॥ विशिष्टगुर्वादिभावेन धर्मकथादित्वात् (विसिट्ठगुरु०) ॥ साधुः - धर्मशीलः । सिद्धौ विषये (सिद्धीए) ॥ स - शुक्लपाक्षिकः , तान् - मात्रादीन् , जीवयेत् आत्यन्तिकं अमरणावन्ध्यकारणसम्यक्त्वादियोगेनेत्यर्थः (स ते ओसहाइ०) ।।। एतं यत्तत्त्यागः (पुरिसोचियमेयं) ।। भगवान् महावीरो गर्भेऽभिग्रहप्रतिपत्ता (भगवं एत्थ नायं) । एष धर्मः सताम् (एस धम्मो सयाणं) ॥ शोकं प्रव्रज्याग्रहणोद्भवम् (अम्मापिइसोगं)॥ समधिवासितो गुरुणा गुरुमन्त्रेण (समहिवासिए) ॥३॥ सुविधिभावत: करणात् क्रियाफलेन युज्यते (किरियाफलेण जुज्जइ)। क्रियात्वात् सम्यक् ॥ मिथ्याज्ञानं (न विवज्जयमेइ) ॥ विपर्ययाभावेऽभिप्रेतसिद्धिः स्यात् , उपायप्रवृत्तेः (एयाभावे०) ॥ नाऽविपर्यस्तोऽनुपाये प्रवर्तयेत् । उपायप्रवृत्तिरेव हि अविपर्यस्तस्याऽविपर्यस्तता (नाविवज्जत्थो०)। तत्सतत्त्वत्याग उपायसतत्त्वत्याग एव अन्यथा स्वयमुपेयमसाधयतः (तस्सतत्तच्चाओ अण्णहा) ॥ तदसाधकत्वाविशेषादनुपायस्याप्युपायप्रसङ्गात् (अइप्पसंगाओ) । न चैवं व्यवहारोच्छेदः, निश्चयनयमतमेतत् ॥ स-एवं प्रवजितः (से) ॥ ग्रहणासेवनरूपां आदत्ते (सिक्खमाइयइ) ॥ तत्त्वार्थदर्शी (भूयत्थदरिसी) ॥ नेतो गुरुकुलवासादन्यत् हितं तत्त्वमिति मन्यते (न इओ हियतरं०) || अनुष्ठेयं प्रति बद्धलक्षः (बद्धलक्खे) । Page #8 -------------------------------------------------------------------------- ________________ 54 इहलोकाद्यपेक्षया (आसंसा०), मोक्षार्थी (आययट्ठी) ॥ स एवंभूतस्तत्सूत्रमुपैति (स तमुवेइ०) ।। सर्वथा-याथातथ्येन ।। यदुतैवमधीतं सम्यग् नियुक्तं (एयं धीराण०) । अन्यथाऽविध्यध्ययनेऽनियोगो विपर्यासो भवति (अण्णहा०)।। विधिनाऽनाराधनायां न किञ्चिदिष्टमोक्षांदिफलं, तत्त्वतस्तदनारम्भादेव । (अणाराहणाए न किंचि, तदणा०) || इहैव लिङ्गमाह - अत्राऽनाराधनायां, मार्गदेशनायां तात्त्विकायां शृण्वतो दुःखं भवति (एत्थ मग्ग०) || उक्तं च - "शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः" || तदवधीरणा मनाग लघुतरकर्मणो न दुःखम् । तथाऽत (तत्-) प्रतिपत्ति:ततोऽपि लघुतरकर्मणो नावधीरणा ।। ततः किम् ? इत्याह-नैवमनाराधनायाऽधीतमधीतं सूत्रम् । अवगमस्य सम्यग्बोधस्य विरहात् । (नेवमहीयमहीयं०)।। मैषा मार्गगामिन एकान्तमनाराधना भवति, सम्यक्त्वादियोगे सर्वथाऽसक्रियाऽयोगात् (न एसा मग्गगामिणो) ॥ ___अनर्थमुखा, उन्मादादिभावेन (विराहणा अणत्थमुहा) । इयं गुरुतरदोषापेक्षयाऽर्थहेतुः पारम्पर्येण मोक्षाङ्गमेवेत्यर्थः । तस्य-मोक्षगमनस्यैवारम्भात् , कण्टकज्वरमोहोपेतमार्गगन्तृवत् । (अत्थहेऊ, तस्सारंभओ धुवं) ।। उक्तं च "मुनेर्मार्गप्रवृत्तिर्या सदोषाऽपि गुणावहा। कण्टकज्वरसंमोह - युक्तस्येव सदध्वनि ॥१॥" एतद्भावे लिङ्गमाह - अत्र विराधनायां सत्यां मार्गदेशनायां तात्त्विकायां अनभिनिवेशः शृण्वतो भवति, हेयोपादेयतामधिकृत्य (एत्थ मग्गदेसणाए अणभिनिवेसो) ॥ तथा प्रतिपत्तिमात्रं मनाग् विराधकस्य, नाऽनभिनिवेशः ।। तथा क्रियारम्भोऽल्पतरविराधकस्य, न प्रतिपत्तिमात्रम् ।। ___ एवमपि विराधनयाऽधीतं सूत्रमधीतं, अवगमलेशयोगहेतोः (एवं पि०)॥ अयं-विराधक: सबीजो नियमेन, सम्यक्त्वादिबीजा(ज)युक्तत्वात् (अयं सबीओ०) ॥ यतो मार्गगामिन एवैषा प्राप्तबीजस्येति भावः, न सामान्येन, किं तर्हि ? अपायबहुलस्य – निरुपक्रमक्लिष्टकर्मवतः (मग्गगामिणो खु०) । ___ निरू(र)पायो यथोदितो मार्गगामीति प्रक्रमः (निरवाए जहोदिए) ।। एतदेवाह सूत्रोक्तकारी भवति सबीजो निरू(र)पायः (सुत्तुत्तकारी) । Page #9 -------------------------------------------------------------------------- ________________ 55 सामान्येन (पवयणमाइ०) ॥ विशेषेण (पंचसमिए०) ॥ अनर्थपर एतत्त्यागः - प्रवचनमातृत्यागः । अव्यक्तस्य-भावबालस्य । (अणत्थपरे०) ॥ सम्यगेतद् विजानातीति योगः ॥ शिशुर्हि जननीत्यागाद् विनश्यति (सिसुजणणि०) । अत्र-भावचिन्तायां (वियत्ते एत्थ०) ॥ एतत्प्रवचनमातृफलभूतो भावपरिणत्या ।। (एयफलभूते) | सम्यगेतदनन्तरोदितं विजानाति (सम्ममेयं०) ।। एतदेवाह-द्विधा परिज्ञा, बोध-तद्गर्भक्रियारूपा, ज्ञ-प्रत्याख्यानभेदात् (दुविहाए) ॥ आश्वासप्रकाशरूपं द्वीपं दीपं च 'विजानाती'ति वर्तते । इह भवाब्धौ आश्वासदीपः, मोहान्धकारे प्रकाशदीपश्च । आद्यः स्पन्दनं प्लवनं तद्वान् , इतरश्च द्वितीयोऽपि स्थिराऽस्थिरभेदः । (तहा आसासपयासदीव) ।। असन्दीन-स्थिरौ तो क्रमात् क्षायिकज्ञान-चारित्ररूपौ, तदर्थमुद्यच्छति (असंदीणथिरत्थमुज्जमइ) ॥ फलं प्रति (अणूसगे) ॥ नि:सपत्नश्रामण्यव्यापारः (असंसत्त०)॥ निर्वाणसाधिकां (भावकिरियं) ॥ व्याधितसुक्रियाज्ञातेन (वाहियसुकिरियानाएण) ॥ यद् तथा - न कण्डूलकण्डूयनकारिवद् विपर्यस्तः (विण्णाया सरूवेण) ॥ वेदनाया इति प्रक्रमः (निविण्णे०) ॥ तं व्याधिं (तमवगच्छिय) । देवतापूजादिप्रकारतः (जहाविहाणओ) ॥ ___ आरोग्यप्रतिबन्धाद्धेतोः (तप्पडिबंधाओ) ॥ शिरावेध-क्षारपातभावेऽपि व्याधिशमाद् यदारोग्यं तदवबोधेन इष्टस्यारोग्यस्य निष्पत्तेर्हेतोरनाकुलः ।। (सिराखाराइजोगेण० इट्ठनिष्फत्तीओ) ।। तं सुगुरुं कर्मव्याधिं चाऽवगम्य पूर्वं तृतीयसूत्रोक्तविधानेन प्रतिपन्नः सुक्रियां-प्रव्रज्याम् (तमवगच्छिय पुव्वुत्त०) .॥ चरणारोग्यप्रतिबन्धविशेषात् (तप्पडिबंधविसेसओ) ॥ कुशलाशयस्य क्षायोपशमिकभावस्य वृद्धया स्थिरः - चित्तस्थैर्येण सदास्तिमितो भावद्वन्द्वविरहात् प्रशान्तः (कुसलसिद्धीए थिरासयत्तेण) ॥ Page #10 -------------------------------------------------------------------------- ________________ 56 गुरुं भाववैद्यकल्पम् । (गुरुं च बहु०) || कथम् ? इत्याह-यथोचितम(?) - स्नेहरहिततद्भावप्रतिपत्त्या (असंगपडिवत्तीए ) || किमस्या उपन्यासः ? इत्याहयतो निसर्गप्रवृत्तिभावेन हेतुना एषा असङ्गप्रतिपत्तिर्गुर्वी व्याख्याता (निसग्गपवित्तिभावेण० ) ।। तथा भावसारा - औदयिकभावविरहेण विशेषतोसङ्गप्रतिपत्तिर्गुर्वीति ॥ युक्तयन्तरमाह - भगवंतेत्यादि । ( भावसारा० ) || तदाज्ञा भगवदाज्ञा (तयाणा ) | अन्यथा - गुरुबहुमानव्यतिरेकेण क्रियाउपधिप्रत्युपेक्षणादिरूपा, कुलयउपवासादिका (अन्नहा किरिया० ) || फलादन्यदफलं, मोक्षात् सांसारिकमित्यर्थः, तद्योगात् (अफलफलजोगओ) || यत आवर्त्तः संसार एव तत्त्वतस्त (त्फलं विरा) धनाविषजन्यम् । आवर्तो विशेष्यते -अशुभेति । (आवट्टे खु तप्फलं असुहाणुबंधे) ॥ आयतो गुरुबहुमानः साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोक्ष एव स गुरुबहुमानोऽवन्ध्यकारणत्वेन मोक्षं प्रति हेतुना (आयओ गुरु० ) ॥ यतश्चैवमत एष गुरुबहुमानोऽत्र शुभोदयः, प्रकृष्टतद० - शुभोदयानुबन्धः ॥ ( एसेह सुहोद पगि०) || अत्र - गुरुबहुमानसुन्दरत्वे (एत्थ ) | स तावदधिकृत प्रव्रजित एवंप्रज्ञो विमलविवेकात्, एवंभावः प्रकृत्या, एवं परिणाम: - सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् (से एवंपण्णे०) || द्वादशमासप्रव्रज्ययाऽतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभभावरूपाम् (दुवालसमासिएणं० ) ॥ एवमाह महामुनिः श्रीवीरः ॥ तथा चागमः - "जे इमे अज्जत्ताए समणा निग्गंथा एए णं कस्स तेउल्लेसं वीईवयंति ? | गो०, मासघरियाए समणे निगं [ थे ] वाणमंतराणं तेउल्लेसं वीइवयइ । एवं दुमासपरियाए असुरिंदवज्जिआणं भवणवासीणं । तिमासपरिया० असुरकुमारिंदाणं, चउमा ० चंदिभसूखज्जिआ (अ) गहनक्खत्ततारारूवाणं जोइसिआणं, पंचमा० चंदिमसूरि०, छम्मा० सोहम्मीसाणाणं, सत्तमा० स० माहिंदाणं ।" एवं कल्पद्विकवृद्धया'दस मा० आणय पाणय आरण अच्चुआणं, एक्कारसमा० गेविज्जाणं दे०, बारमा० अणुत्तरोववाइआणं" । 1 - Page #11 -------------------------------------------------------------------------- ________________ 57 तेजोलेश्याऽत्र चित्तसुखलाभलक्षणा । ततः शुक्लः - अमत्सरी कृतज्ञः सदारम्भी हितानुबन्धः, शुक्लाभिजात्यश्चैतत्प्रधानो भवति । (सुक्को सुक्काभि०)। प्रायश्छिन्नकर्मानुबन्धः तद्वेदयन् नान्यद् बघ्नाति । प्रायोग्रहणादचिन्त्यत्वात् कर्मशक्तेः कदाचिद् बध्नात्यपि (पायं छिन्नकम्माणुबंधे)॥ भगवद्वचःप्रतिकूल-संसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपाम् (लोगसण्णं)। लोकाचारप्रवाहनदी प्रति (पडिसोयगामी) अनुस्रोतोनिवृत्तः, सदा शुभयोगः - श्रामण्यव्यापारसङ्गतः, एष योगी व्याख्यातो भगवद्भिः (एस जोगी०)।। यथागृहीतप्रतिज्ञ आदित आरभ्य सम्यक् प्रवृत्तेः । सर्वोप० निरतिचारत्वेन (सव्वोपहा०)। शुद्धभवस्याऽभवसाधकत्वे निदर्शनमाह - भोग० । न रूपादिविकलस्यैताः सम्यग् भवन्तीति ।। उक्तं च - "रूपं वयो वैचक्षण्य-सौभाग्य-माधुर्यैश्वर्याणि भोगसाधनम्" इति ।। ततस्ताः संपूर्णाः प्राप्नोति सुरूपादिकल्पाद् भवाद् भोगक्रिया इत्यर्थः ।। (तओ ता०) ॥ अवि० कारणात् (अविगलहेउभावओ) ।। असंक्लि० (असंकिलिट्ठसुहरूवाओ) || न चान्या उक्तलक्षणभोगक्रियाभ्य: संपूर्णाः (न य अण्णा०) ॥ तत्त० संक्लेशादिभ्य अभयलोकापेक्षया भोगक्रियास्वरूपखण्डनेन (तत्तत्तखंडणेणं)।। एतत् ज्ञानमित्युच्यते (एयं नाणं ति वुच्चइ)।। एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः उचितप्रतिपत्तिप्रधानाऽज्ञानालोचनेन (एयम्मि सुहजोगसिद्धी०)।। अत्र भावः प्रवर्तकः, प्रस्तुतप्रवृत्तौ सदन्तःकरणलक्षणो न मोहः । अत एवाऽऽहअधिकृतप्रवृत्तौ प्रायो विघ्नो न विद्यते, सदुपाययोगाद् इत्यर्थः । एतद्बीजमेवाहनिरनुबन्धाशुभकर्मभावेन । सानुबन्धाऽशुभकर्मणः सम्यक् प्रव्रज्याऽयोगात् ॥ आक्षिप्ताः -स्वीकृता एवैते योगा:-प्रव्रज्याव्यापारा; भावाराधनातः तथा जन्मान्तरे बहुमानादिप्रकारेण । तत आक्षेपात् सम्यक् प्रवर्त्तते, नियमनिष्पादकत्वेन । ततो निष्पादयत्यनाकुलः सन्निष्टम् ॥ निष्कलङ्गा-निरतिचारत्वेन ॥ निष्कलङ्कार्थो मोक्षः ।। ततः शुभानुबन्धायाः सुक्रियायाः सकाशात् स प्रव्रजितः साधयति परं-प्रधानं परार्थ-सत्यार्थम् , परार्थसाधनकुशलः, तैस्तैर्बीज-बीजस्थापनादि प्रकारादिप्रकारैः सानुबन्धं परार्थम्। Page #12 -------------------------------------------------------------------------- ________________ 58 महोदयोऽसौ ।। एतदेवाऽऽह-बीजबी० । बीजं सम्यक्त्वं, बीजबीजं तदाक्षेपकं शासनप्रशंसादि, एतन्न्यासेन | कान्तिवीर्यादियुक्तः परं परार्थं प्रत्यवन्ध्यशुभचेष्टः, समन्तभद्रः सर्वाकारसम्पन्नतया ॥ तच्चिकित्सासामर्थ्यवत्त्वात् (रागामयवेज्जे०) ॥ संवेगसिद्धिकरस्तद्धेतुयोगेन । सत्त्वसुखहेतुतया (अचिंत०) ॥ स प्रव्रजित एवं परंपरार्थसाधक: करुणादिभावतः (से एवं परंपरत्थ०)।। सर्वोत्तमं-तीर्थकरादिजन्म चरमभवहेतुं मोक्षहेतुमित्यर्थः (सव्वुत्तमं) ।। अविकलपरपरार्थनिमित्तं-अनुत्तरपुण्यसम्भाराभावेन || सिध्यति-सामान्येनाऽणिमाद्यैश्वर्यं प्राप्नोति ॥ बुध्यते-केवली भवति ।। मुच्यते-भवोपग्राहिकर्मणा || परिनिर्वाति-सर्वतः कर्मविगमेन ॥ इति प्रव्रज्यापरिपालनाविधिवाच्यं सूत्रम् ॥४|| स(से)-प्रव्रज्याकारी एवं-उक्तेन प्रकारेणाऽभिसिद्धः सन् परमब्रह्मरूपः सन् , मंग० गुणोत्कर्षयोगेन, जम्मज० निमित्ताभावेन । अनुबन्धशक्तिवर्जितोऽशुभमङ्गीकृत्य । स्वभावसंस्थितः -सांसिद्धिकधर्मवान्। ज्ञेयानन्तत्वाद् ज्ञानदर्शनयोरनन्तत्वम् ॥ . ____ अनित्थंस्थं संस्थानं यस्या अरूपिण्याः सत्तायाः सा तथा (अणित्थंत्थसंठाणा) । सर्वेच्छाव्यपगमेन (निरवेक्खा) । यतोऽसंयोगिक एष आनन्द: सुखरूप: अत एव निरपेक्षत्वादेव परो मतः (असंजोगिए एसाणंदे०)॥ अपेक्षाऽनानन्दः, औत्सुक्यदुःखत्वात् (अवेक्खा०)। अपेक्ष्यमाणाप्त्या तन्निवृत्तौ दोषमाह-संजो० ॥ अफलं फलमेतस्मात् संयोगात् (अफलं०) ॥ तत्-सांयोगिकफलं (खु तं)। यतो मोहाद् विपर्ययोऽत एवाऽफले फलबुद्धिः (जमेत्तो०)। ततो-विपर्ययात् (तओ०) १ एष-मोहः (एस भाव०)। तथाहि - "अन्नाणाओ रिवू अन्नो पाणिणं नेव विज्जइ। इत्तोऽसक्किरिआ तीए अणत्था विस्सओमुहा ॥" १॥ इत्यादि ।। यदि संयोगो दुष्टः कथं सिद्धस्याऽऽकाशेन स न दुष्टः ?, इत्याशङ्क्याऽऽह-नाकाशेन संयोगोऽस्य सिद्धस्य । यतः स सिद्धः स्वरूपसंस्थित: (नागासेण Page #13 -------------------------------------------------------------------------- ________________ 59 जोगो एयस्स०)।। कथमाधारमन्तरेण स्थिति:?, इत्याह-नाकाशमन्यत्राधारे । अत्रैव युक्तिमाह-न सत्ता सदन्तरमुपैति ।। निश्चयनयमेतत् । व्यवहारमतं त्वन्यथा । अभ्युच्चयमाह-वियोगवांश्च योग इति कृत्वा नैष योगः सिद्धाकाशयोरिति । भिन्नं लक्षणमेतस्याऽधिकृतयोगस्य । न चात्राऽपेक्षा । सिद्धस्य लोकान्ताकाशगमनमित्याह-स्वभाव एवैष तस्य अनन्तसुखस्वभावकल्पः । अत्र-सिद्धसुखे (उवमा एत्थ०)। सिद्धसुखभावे सिद्धस्यैवाऽनुभव इति तत्त्वम् (तब्भावे०)॥ कथं तर्हि ज्ञायते ?, इत्याह-आणेत्यादि । रागाद्यभावात् (न वितहत्ते०)। न चाऽनिमित्तं कार्यम् । एवं स्वसंवेद्यं सिद्धसुखमित्याप्तवादः ॥ सिद्धसुखस्य निदर्शनमात्रं नवरं प्राह-सव्वसत्तुक्खयेत्यादि । यादृशमेतत् सुखं तस्मादनन्तगुणं तत् सिद्धसुखम् ॥ दार्श्यन्तिकयोजनामाह-रागादेत्यादि । परमलब्धयस्त्वर्थाः परार्थहेतुत्वेन । अनिच्छेच्छा इच्छा सर्वथा तन्निवृत्त्या । एवं सूक्ष्ममेतत्सुखम् । इतरेणाऽसिद्धेन ।। न केवलं सिद्धसुखं साद्यादिभेदं किन्तु तेऽपि भगवन्तः-सिद्धा अपि एवं-एकसिद्धापेक्षया साद्यपर्यवसिताः ॥ समाने भव्यत्वादौ कथमेतदेवं ?, इत्याह-तथाभव्य० । तथाफलपरिपाकि इह तथाभव्यत्वम् । तथाफलभेदेनकालादिभेदभाविफलभेदेन ।। ननु (न तु)सहकारिभेदमात्रात् फलभेद:? 1 यतो नाऽविचित्रे तथाभव्यत्वादौ सहकारिभेदः । यतस्तदपेक्षस्तकः, अन्यथा तदुपनिपाताभावात् ; स खल्वनेकान्तवाद० एवं-तथाभव्यत्वादिभावे । इतरथा एकान्तः -सर्वथा भव्यत्वादेस्तुल्यतायाम् ।। मिथ्यात्वं एष-एकान्तः । नाऽतो व्यवस्थाएकान्तात् । भावाच्चाऽभेदे सहकारिभेदाऽयोगात्। अत एवाऽनाहमेतद् - एकान्ता श्रयणम् ।। प्रस्तुतप्रसाधकमेव न्यायान्तरमाह - संसारिण एव सिद्धत्वमित्यादि । अबद्धबन्धने चाऽमुक्तिर्मुक्त्यभावः, अबद्धत्वेन हेतुना | पुनर्बन्धप्रसङ्गात् , प्रागबद्धबन्धवत् ।। अनादिमति बन्धे मोक्षाभावस्तथा (स्तत्स्वा) भाविकत्वादित्याशङ्कानिरासायाऽऽह-अनादियोगेत्यादि । आदावबद्धस्य दिदृक्षा, बद्धमुक्तस्य तु न सेति दोषाभावाना(दा)दिमानेव बन्धोऽस्त्वित्याशङ्कापोहमाह- न दिदृक्षाऽकरणस्येन्द्रियरहितस्य । न चाऽदृष्टे Page #14 -------------------------------------------------------------------------- ________________ 60 एषा-दिदृक्षा ॥ सहजैवैषेत्यारेका निरस्यति - न सहजाया दिदृक्षाया निवृत्तिश्चैतन्यवत् । न च निवृत्तौ दिदृक्षाया आत्मावस्थानं, तदव्यतिरेकात् । नान्यथा तस्यैषा । तदव्यतिरेकेऽपि भव्यत्वस्येव तन्निवृत्तौ न दोष इत्याशङ्कां निरस्यति । न भव्यत्वतुल्या न्यायेन, दिदृक्षा। यतो न केवलजीवरूपमेतद्भव्यत्वम् । दिदृक्षा तु केवलजीवरूपेत्यर्थः ।। न भावियोगापेक्षया महदादिभावे तदाऽके-वलत्वेन तुल्यत्वं दिदृक्षाया भव्यत्वेन ।। अत्र युक्तिमाह-तदा केवलत्वेन भावि- योगाभावे सदाऽविशेषात् । तथा सांसिद्धिकत्वेन तदूर्ध्वमपि दिदृक्षापत्तिरिति भावः। एवंस्वभावैवेयं दिदृक्षा, या महदादिभावाद् विकारदर्शने केवलावस्थायां निवर्तत इत्येतदाशंक्याऽऽह – तथास्वभावकल्पनं कैवल्याविशेषे प्रक्रमाद् दिहक्षाया भावाभावस्वभावकल्पनमप्रमाणमेव । आत्मनस्तद्भेदापत्तेः । प्रकृतेः पुरुषाधिकत्वेन तद्भावापत्त्या । अत एवाह - एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिदृक्षायामभ्युपगम्यमानायाम् ।। तदेवं व्यवस्थिते सति परिणामभेदादात्मन इति प्रक्रमः, बन्धमोक्षादिभेद इत्येतत् साधु-प्रामाणिकम् ॥ अत एवाह-सर्वनयविशुद्धया । उक्तसाधुफलं दर्शयति-निरुपचरितोभयभावेनप्रक्रमाद् बन्धमोक्षभावेन ॥ एवं द्रव्यास्तिकमाश्रित्य कृता निरूपणा । पर्यायास्तिकमाश्रित्याऽऽह - नात्मभूतं कर्म - न बोधस्वलक्षणमेवेत्यर्थः । न परिकल्पितं-असदेवैतत् । यतो नैव(व)भ० । आत्मभूते परिकल्पिते वा कर्मणि बोधमात्राविशेषेण क्षणभेदेऽपि मुक्तक्षणभेदवन भवापवर्गविशेषः ।। ___न भवाभाव एव सिद्धिः-सन्तानोच्छेद-प्रध्यातप्रदीपोपमा । अत्र युक्तिमाह-तदु० अनु(त्पा)दः, तस्यैव, किं तर्हि ?, उत्पाद एव । यथाऽसौ सन्नुत्पद्यते तथाऽसन्नप्युत्पद्यतामिति को विरोधः?। यद्येवं, ततः किम् ?,इत्याह-नैवं समंजसत्वम् । कथम्?, इत्याह – एवं नाऽनादिमान् भवः, कदाचिदेव संतानोत्पत्तेः। तथा न हेतुफलभावः, चरमाऽऽद्यक्षणयोरकार्यकारणत्वात् । पक्षान्तरं निरस्यतितस्य तथा स्वभावकल्पनमयुक्तं, यतो निराधारान्वयत्वतो नियोगेन । अयमत्र भावार्थ:-स्वो भाव इत्यात्मीया सत्ता स्वभाव (व:) निवृत्तिस्वभाव इति (नि(रा)धारान्वयः । यद्वाऽन्वयाभाव(व:?)नियोगग्रहणं, अवश्यमिदमित्थं, अन्यथा Page #15 -------------------------------------------------------------------------- ________________ 61 शब्दार्थाऽयोगात् । एवमाद्यक्षणेऽपि भावनीयम् । अत एवाह-तस्सेव तहाभा०। तस्यैव तथाभावे युक्तमेतत् तथास्वभावकल्पनम् । सूक्ष्ममर्थपदमेतद् भावगम्यत्वाद् विचिन्तितव्यं महाप्रज्ञया, अन्यथाऽज्ञेयत्वात् ॥ __ आनुषङ्गिकमुक्त्वा प्रकृतमाह-अपज्ज०। अपर्यवसितमेव यु(मु?)क्तेन प्रकारेण सिद्धसुखम् । अत एव चोत्तममिदम् । सर्वथाऽनुत्सुकत्वे सति अनन्तभावात् कारणात् । एषां वासः । हतो गंतेत्यादि (?)। अष्टमृल्लेपलिप्तजलक्षिप्ताऽधोनिमग्न-तदपा(प)गमोर्द्धवगमनस्वभावाऽलाबुवत् । आदेरेरण्डफलादिग्रहः ।। तत्रैवाऽसकृद्गमनागमनेत्याह-नियमोऽत एवाऽलाबुप्रभृतिज्ञाततः ॥ अस्पृशद्गत्या गुणमहं (? गमन) सिद्धस्य सिद्धक्षेत्रं प्रति ! उत्कर्षविशेषत इयं, गत्युत्कर्षविशेषदर्शनाद् , एवमस्पृशदग्तिः सम्भवति । अव्यवच्छेदो भव्यानामनन्तभावेन । एतदनन्तकं भव्यानन्तकं अनन्तानन्तकं न युक्तानन्तकादि । समया अत्र ज्ञातम् । तेषां प्रतिक्षणमतिक्रमेऽनुच्छेदः । (अव्वोच्छेदो०) ॥ एवं च सति भव्यत्वं योग्यतामात्रम् ॥ मोष(?)(मोक्ष?) सिद्धितः, तन्नीत्या तथा निश्चयाङ्गभावेन एव प्रवृत्त्याऽपूर्वकरणादिप्राप्तेः ॥ परिशुद्धस्तु केवलम् ।। आज्ञायेषी (आज्ञापेक्षी) पुष्टालम्बनः । एषाऽऽज्ञा इह भगवत उभयनयगर्भा सर्वैव पञ्चसूत्रोक्ता वा । समं० सर्वतो निर्दोषा ॥ तिको० कष-च्छेद-तापपरिशुद्धया अपुनर्बन्धकादिगम्या ।। आदिशब्दान्मार्गाभिमुख-मार्गपतितादिग्रहः ॥ एअप्पि० आज्ञाप्रियत्वमुपलक्षणात् श्रवणाभ्यासादि खल्वत्राऽपुनर्बन्धकादिलिङ्गम् । एतदपि(प्यौ)चित्यप्रवृत्तिविज्ञेयं, तदाराधनेन तद्बहुमानात् । संवेगसाधकम् । यस्य भगवदाज्ञा प्रिया तस्य नियमत: संवेगः ॥ नैषाऽन्येभ्योऽपुनर्बन्धकादिव्यतिरिक्तेभ्यो देया । लिङ्गविपर्ययात् तत्परिज्ञा-संसाराभिनन्दिपरिज्ञा । किमिति न तेभ्यो देया?, इत्याह -- तदनुग्रहार्थम्। Page #16 -------------------------------------------------------------------------- ________________ b2 आमकुम्भोदकन्यासज्ञातेन / एषाऽयोग्येभ्योऽप्रदानरूपा करुणोच्यते। एगंत० तदपायपरिहारेण / अत एवेयमविराधनाफला, सम्यगालोचनेन / न पुनर्लानाऽपथ्यदानकरुणावत् तदाभासा / / इयं च त्रिलो०(कनाथबहुमानेन) न तेन (?) हेतुना / निःश्रेयससाधिका सानुबन्धप्रवृत्तिभावेन // प्रव्रज्याफलसूत्रम् // 5 // इति पञ्चसूत्रकावचूरिहरिभद्रीयसंक्षिप्तव्यारव्योपरिस्थिता श्रीमुनिसुन्दरसूरि महोपाध्यायपादैः / / सं. 1962 कार्तिक शुक्ल 13 त्रयोदश्यां गुरुवासरे //