________________
60
एषा-दिदृक्षा ॥ सहजैवैषेत्यारेका निरस्यति - न सहजाया दिदृक्षाया निवृत्तिश्चैतन्यवत् । न च निवृत्तौ दिदृक्षाया आत्मावस्थानं, तदव्यतिरेकात् । नान्यथा तस्यैषा । तदव्यतिरेकेऽपि भव्यत्वस्येव तन्निवृत्तौ न दोष इत्याशङ्कां निरस्यति । न भव्यत्वतुल्या न्यायेन, दिदृक्षा। यतो न केवलजीवरूपमेतद्भव्यत्वम् । दिदृक्षा तु केवलजीवरूपेत्यर्थः ।। न भावियोगापेक्षया महदादिभावे तदाऽके-वलत्वेन तुल्यत्वं दिदृक्षाया भव्यत्वेन ।। अत्र युक्तिमाह-तदा केवलत्वेन भावि- योगाभावे सदाऽविशेषात् । तथा सांसिद्धिकत्वेन तदूर्ध्वमपि दिदृक्षापत्तिरिति भावः। एवंस्वभावैवेयं दिदृक्षा, या महदादिभावाद् विकारदर्शने केवलावस्थायां निवर्तत इत्येतदाशंक्याऽऽह – तथास्वभावकल्पनं कैवल्याविशेषे प्रक्रमाद् दिहक्षाया भावाभावस्वभावकल्पनमप्रमाणमेव । आत्मनस्तद्भेदापत्तेः । प्रकृतेः पुरुषाधिकत्वेन तद्भावापत्त्या । अत एवाह - एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिदृक्षायामभ्युपगम्यमानायाम् ।। तदेवं व्यवस्थिते सति परिणामभेदादात्मन इति प्रक्रमः, बन्धमोक्षादिभेद इत्येतत् साधु-प्रामाणिकम् ॥ अत एवाह-सर्वनयविशुद्धया । उक्तसाधुफलं दर्शयति-निरुपचरितोभयभावेनप्रक्रमाद् बन्धमोक्षभावेन ॥
एवं द्रव्यास्तिकमाश्रित्य कृता निरूपणा । पर्यायास्तिकमाश्रित्याऽऽह - नात्मभूतं कर्म - न बोधस्वलक्षणमेवेत्यर्थः । न परिकल्पितं-असदेवैतत् । यतो नैव(व)भ० । आत्मभूते परिकल्पिते वा कर्मणि बोधमात्राविशेषेण क्षणभेदेऽपि मुक्तक्षणभेदवन भवापवर्गविशेषः ।। ___न भवाभाव एव सिद्धिः-सन्तानोच्छेद-प्रध्यातप्रदीपोपमा । अत्र युक्तिमाह-तदु० अनु(त्पा)दः, तस्यैव, किं तर्हि ?, उत्पाद एव । यथाऽसौ सन्नुत्पद्यते तथाऽसन्नप्युत्पद्यतामिति को विरोधः?। यद्येवं, ततः किम् ?,इत्याह-नैवं समंजसत्वम् । कथम्?, इत्याह – एवं नाऽनादिमान् भवः, कदाचिदेव संतानोत्पत्तेः। तथा न हेतुफलभावः, चरमाऽऽद्यक्षणयोरकार्यकारणत्वात् । पक्षान्तरं निरस्यतितस्य तथा स्वभावकल्पनमयुक्तं, यतो निराधारान्वयत्वतो नियोगेन । अयमत्र भावार्थ:-स्वो भाव इत्यात्मीया सत्ता स्वभाव (व:) निवृत्तिस्वभाव इति (नि(रा)धारान्वयः । यद्वाऽन्वयाभाव(व:?)नियोगग्रहणं, अवश्यमिदमित्थं, अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org