________________
61
शब्दार्थाऽयोगात् । एवमाद्यक्षणेऽपि भावनीयम् । अत एवाह-तस्सेव तहाभा०। तस्यैव तथाभावे युक्तमेतत् तथास्वभावकल्पनम् । सूक्ष्ममर्थपदमेतद् भावगम्यत्वाद् विचिन्तितव्यं महाप्रज्ञया, अन्यथाऽज्ञेयत्वात् ॥
__ आनुषङ्गिकमुक्त्वा प्रकृतमाह-अपज्ज०। अपर्यवसितमेव यु(मु?)क्तेन प्रकारेण सिद्धसुखम् । अत एव चोत्तममिदम् । सर्वथाऽनुत्सुकत्वे सति अनन्तभावात् कारणात् । एषां वासः । हतो गंतेत्यादि (?)।
अष्टमृल्लेपलिप्तजलक्षिप्ताऽधोनिमग्न-तदपा(प)गमोर्द्धवगमनस्वभावाऽलाबुवत् । आदेरेरण्डफलादिग्रहः ।। तत्रैवाऽसकृद्गमनागमनेत्याह-नियमोऽत एवाऽलाबुप्रभृतिज्ञाततः ॥
अस्पृशद्गत्या गुणमहं (? गमन) सिद्धस्य सिद्धक्षेत्रं प्रति ! उत्कर्षविशेषत इयं, गत्युत्कर्षविशेषदर्शनाद् , एवमस्पृशदग्तिः सम्भवति ।
अव्यवच्छेदो भव्यानामनन्तभावेन । एतदनन्तकं भव्यानन्तकं अनन्तानन्तकं न युक्तानन्तकादि । समया अत्र ज्ञातम् । तेषां प्रतिक्षणमतिक्रमेऽनुच्छेदः । (अव्वोच्छेदो०) ॥
एवं च सति भव्यत्वं योग्यतामात्रम् ॥
मोष(?)(मोक्ष?) सिद्धितः, तन्नीत्या तथा निश्चयाङ्गभावेन एव प्रवृत्त्याऽपूर्वकरणादिप्राप्तेः ॥
परिशुद्धस्तु केवलम् ।। आज्ञायेषी (आज्ञापेक्षी) पुष्टालम्बनः ।
एषाऽऽज्ञा इह भगवत उभयनयगर्भा सर्वैव पञ्चसूत्रोक्ता वा । समं० सर्वतो निर्दोषा ॥ तिको० कष-च्छेद-तापपरिशुद्धया अपुनर्बन्धकादिगम्या ।। आदिशब्दान्मार्गाभिमुख-मार्गपतितादिग्रहः ॥
एअप्पि० आज्ञाप्रियत्वमुपलक्षणात् श्रवणाभ्यासादि खल्वत्राऽपुनर्बन्धकादिलिङ्गम् । एतदपि(प्यौ)चित्यप्रवृत्तिविज्ञेयं, तदाराधनेन तद्बहुमानात् । संवेगसाधकम् । यस्य भगवदाज्ञा प्रिया तस्य नियमत: संवेगः ॥
नैषाऽन्येभ्योऽपुनर्बन्धकादिव्यतिरिक्तेभ्यो देया । लिङ्गविपर्ययात् तत्परिज्ञा-संसाराभिनन्दिपरिज्ञा । किमिति न तेभ्यो देया?, इत्याह -- तदनुग्रहार्थम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org