________________
56
गुरुं भाववैद्यकल्पम् । (गुरुं च बहु०) || कथम् ? इत्याह-यथोचितम(?) - स्नेहरहिततद्भावप्रतिपत्त्या (असंगपडिवत्तीए ) || किमस्या उपन्यासः ? इत्याहयतो निसर्गप्रवृत्तिभावेन हेतुना एषा असङ्गप्रतिपत्तिर्गुर्वी व्याख्याता (निसग्गपवित्तिभावेण० ) ।। तथा भावसारा - औदयिकभावविरहेण विशेषतोसङ्गप्रतिपत्तिर्गुर्वीति ॥ युक्तयन्तरमाह - भगवंतेत्यादि । ( भावसारा० ) ||
तदाज्ञा भगवदाज्ञा (तयाणा ) | अन्यथा - गुरुबहुमानव्यतिरेकेण क्रियाउपधिप्रत्युपेक्षणादिरूपा, कुलयउपवासादिका (अन्नहा किरिया० ) || फलादन्यदफलं, मोक्षात् सांसारिकमित्यर्थः, तद्योगात् (अफलफलजोगओ) || यत आवर्त्तः संसार एव तत्त्वतस्त (त्फलं विरा) धनाविषजन्यम् । आवर्तो विशेष्यते -अशुभेति । (आवट्टे खु तप्फलं असुहाणुबंधे) ॥
आयतो गुरुबहुमानः साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोक्ष एव स गुरुबहुमानोऽवन्ध्यकारणत्वेन मोक्षं प्रति हेतुना (आयओ गुरु० ) ॥ यतश्चैवमत एष गुरुबहुमानोऽत्र शुभोदयः, प्रकृष्टतद० - शुभोदयानुबन्धः ॥ ( एसेह सुहोद पगि०) ||
अत्र - गुरुबहुमानसुन्दरत्वे (एत्थ ) |
स तावदधिकृत प्रव्रजित एवंप्रज्ञो विमलविवेकात्, एवंभावः प्रकृत्या, एवं परिणाम: - सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् (से एवंपण्णे०) || द्वादशमासप्रव्रज्ययाऽतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभभावरूपाम् (दुवालसमासिएणं० ) ॥ एवमाह महामुनिः श्रीवीरः ॥ तथा चागमः - "जे इमे अज्जत्ताए समणा निग्गंथा एए णं कस्स तेउल्लेसं वीईवयंति ? | गो०, मासघरियाए समणे निगं [ थे ] वाणमंतराणं तेउल्लेसं वीइवयइ । एवं दुमासपरियाए असुरिंदवज्जिआणं भवणवासीणं । तिमासपरिया० असुरकुमारिंदाणं, चउमा ० चंदिभसूखज्जिआ (अ) गहनक्खत्ततारारूवाणं जोइसिआणं, पंचमा० चंदिमसूरि०, छम्मा० सोहम्मीसाणाणं, सत्तमा० स० माहिंदाणं ।" एवं कल्पद्विकवृद्धया'दस मा० आणय पाणय आरण अच्चुआणं, एक्कारसमा० गेविज्जाणं दे०, बारमा० अणुत्तरोववाइआणं" ।
Jain Education International
For Private & Personal Use Only
1
-
www.jainelibrary.org