SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 51 (तदारंभो) ॥ आत्मानुगामुकत्वेनात्मभूतं धर्मानुष्ठानम् (एयं आयभूयं) ।। एतत् सम्यग् विधिना वर्तनम् ।। (भावमंगलमेयं) । अधिकृतसमाचारनिष्पत्तेः (तन्निप्फत्तीए) ।। अनेकयोनिभावी (पुणो पुणोऽणुबंधी) । परमानन्दो मोक्षः (परमाणंदहेऊ) ॥ प्रकाशका अर्हदादयः (एयधम्मपयासयाणं) ॥ पालकाः प्ररूपकाश्च यत्यादयः (एयधम्मपालयाणं, ०परूवयाणं) ।। प्रतिपत्तारः श्राद्धादयः (० पवज्जगाणं) ॥ भवतु ममैतत् कल्याणं (होउ ममेयं) अधिकृतधर्मप्रतिपत्तिरूपम् । यतीनामवपातकारी आज्ञाकारी (अववायकारी) ।। एतत्तदाज्ञाकारित्वम् (० च्छेयणमेयं)॥ एतस्य-धर्मस्य (एतस्स जोग्गयं) ग्रन्थ्यादिभेदेन (विसुद्धे) ॥ शुभकण्डकवृद्ध्या (विसुज्झमाण०) ॥२।। यथोदितगुणः संसारविरक्तः संविग्न इत्यादिना (जहोदियगुणे) ॥ एतं यतिधर्मम् (एयं) ।। क्रियाविशेषणम् (अपरोवता) ॥ अनुपाय एष परोपतापः ।। स्वधर्मप्रतिपत्तावपि परोपतापरूपात् (अकुसलारंभओ)॥ मातापितृप्रकारानाह- उभयलोगसफलेत्यादि । एवं से वि बोहिज्जेत्येतदन्तम् ॥ उभयलोकसफलं जीवितं, प्रशस्यत इति शेषः ॥ समुदायकृतानि कर्माणि समुदायफलानि, प्रक्रमादत्र शुभानि ; इत्यनेन भूयोऽपि योगाक्षेपस्तथा चाह – एवं सुदीर्घोऽवियोगो भवपरम्परया सर्वेषामस्माकम् (एवं सुदीहो०) ॥ अन्यथा-एवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः ॥ योग्यं चैतन्मनुजत्वम् (जोग्गं च एयं०) । स्वकार्ये धर्मलक्षणे संवरस्थगितप्राणातिपातादिच्छिद्रम् ।। (जुत्तं सकज्जे)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229624
Book TitlePanchsutravchuri
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages16
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size392 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy