Book Title: Panchsutravchuri
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ 59 जोगो एयस्स०)।। कथमाधारमन्तरेण स्थिति:?, इत्याह-नाकाशमन्यत्राधारे । अत्रैव युक्तिमाह-न सत्ता सदन्तरमुपैति ।। निश्चयनयमेतत् । व्यवहारमतं त्वन्यथा । अभ्युच्चयमाह-वियोगवांश्च योग इति कृत्वा नैष योगः सिद्धाकाशयोरिति । भिन्नं लक्षणमेतस्याऽधिकृतयोगस्य । न चात्राऽपेक्षा । सिद्धस्य लोकान्ताकाशगमनमित्याह-स्वभाव एवैष तस्य अनन्तसुखस्वभावकल्पः । अत्र-सिद्धसुखे (उवमा एत्थ०)। सिद्धसुखभावे सिद्धस्यैवाऽनुभव इति तत्त्वम् (तब्भावे०)॥ कथं तर्हि ज्ञायते ?, इत्याह-आणेत्यादि । रागाद्यभावात् (न वितहत्ते०)। न चाऽनिमित्तं कार्यम् । एवं स्वसंवेद्यं सिद्धसुखमित्याप्तवादः ॥ सिद्धसुखस्य निदर्शनमात्रं नवरं प्राह-सव्वसत्तुक्खयेत्यादि । यादृशमेतत् सुखं तस्मादनन्तगुणं तत् सिद्धसुखम् ॥ दार्श्यन्तिकयोजनामाह-रागादेत्यादि । परमलब्धयस्त्वर्थाः परार्थहेतुत्वेन । अनिच्छेच्छा इच्छा सर्वथा तन्निवृत्त्या । एवं सूक्ष्ममेतत्सुखम् । इतरेणाऽसिद्धेन ।। न केवलं सिद्धसुखं साद्यादिभेदं किन्तु तेऽपि भगवन्तः-सिद्धा अपि एवं-एकसिद्धापेक्षया साद्यपर्यवसिताः ॥ समाने भव्यत्वादौ कथमेतदेवं ?, इत्याह-तथाभव्य० । तथाफलपरिपाकि इह तथाभव्यत्वम् । तथाफलभेदेनकालादिभेदभाविफलभेदेन ।। ननु (न तु)सहकारिभेदमात्रात् फलभेद:? 1 यतो नाऽविचित्रे तथाभव्यत्वादौ सहकारिभेदः । यतस्तदपेक्षस्तकः, अन्यथा तदुपनिपाताभावात् ; स खल्वनेकान्तवाद० एवं-तथाभव्यत्वादिभावे । इतरथा एकान्तः -सर्वथा भव्यत्वादेस्तुल्यतायाम् ।। मिथ्यात्वं एष-एकान्तः । नाऽतो व्यवस्थाएकान्तात् । भावाच्चाऽभेदे सहकारिभेदाऽयोगात्। अत एवाऽनाहमेतद् - एकान्ता श्रयणम् ।। प्रस्तुतप्रसाधकमेव न्यायान्तरमाह - संसारिण एव सिद्धत्वमित्यादि । अबद्धबन्धने चाऽमुक्तिर्मुक्त्यभावः, अबद्धत्वेन हेतुना | पुनर्बन्धप्रसङ्गात् , प्रागबद्धबन्धवत् ।। अनादिमति बन्धे मोक्षाभावस्तथा (स्तत्स्वा) भाविकत्वादित्याशङ्कानिरासायाऽऽह-अनादियोगेत्यादि । आदावबद्धस्य दिदृक्षा, बद्धमुक्तस्य तु न सेति दोषाभावाना(दा)दिमानेव बन्धोऽस्त्वित्याशङ्कापोहमाह- न दिदृक्षाऽकरणस्येन्द्रियरहितस्य । न चाऽदृष्टे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16