________________
(४६) आत्मयोग्यतया जातो यो भावो वस्तुदर्शकः। उपयोगो द्विधा सोऽस्ति साकारेतरभेदतः ॥ ३३२ ।। विशेषार्थप्रकाशो यो मनोऽवधिमतिश्रुतैः । उपयोगः स साकारो जायतेऽन्तर्मुहूर्तगः ॥ ३३३ ॥ सामान्यार्थावभासो यो हृषीकावधिमानसः । उपयोगो निराकारः स ज्ञेयोऽन्तर्मुहूर्तगः ॥ ३३४ ।। द्विविधोऽप्युपयोगोऽसौ युगपज्जिनयोर्भवेत् । प्रत्यक्षीकृतनिःशेषतत्त्वः सादिरनंतकः ॥ ३३५ ॥ द्वित्रिसप्तद्विषु ज्ञेया गुणेषु क्रमतो बुधैः । पंच षट् सप्त संति द्वावुपयोगा यथाक्रमम् ॥ ३३६ ॥ तेषां संदृष्टिरित्थम्,
५, ५, ६, ६, ६, ७, ७, ७, ७, ७, ७, ७, २,२, सयोगविक्रियातेजः कषायवेदनासु वै । आहारे मरणे सप्त समुद्धाता निवेदिताः ॥ ३३७ ॥ वहिरात्मप्रदेशानां ते समूहेन निर्गमाः । एकदिक्को स्मृतावत्यौ सर्वदिक्काः परे पुनः ॥ ३३८ ॥ चतुर्थे वासराः सप्त पंचमे ते चतुर्दश । आद्यसम्यक्त्वविच्छेदो गुणे पंचदश द्वयोः ॥ ३३९ ॥
१ ज्ञानत्रयं दर्शनद्वयमेवं पंच, ज्ञानत्रयं दर्शनत्रयमेवं षट्, ज्ञानचतुष्टयं दर्शनत्रयमेवं सप्त, ज्ञानमेकं दर्शनमेकमिति द्वयम् । २ समुद्धाताः । ३ अंत्यो आहारमरणयो समुद्धातावेकस्यामेव दिशि गच्छतः पुनरन्ये पंच सर्वत्र गच्छंति । ४ चतुर्थगुणे यदि उपशमसम्यक्त्वस्यांतरो भवति तदा दिनसप्तकं, पंचमे १४, षष्ठसप्तयोः पंचदश ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org