Book Title: Panchsangrah
Author(s): Amitgati Acharya, Darbarilal Kothiya
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 234
________________ ( २२५) स्वस्थानंतामेयसौख्याब्धिमना__ स्ते नः सद्यः सिद्धये संतु सिद्धाः ॥ ७४ ॥ यस्मात्सर्व कृत्रिम नाशि दृष्टं संत्यज्यैकं पावनं सिद्धिलाभम् । तस्मादन्यत्सद्भिरत्यस्य कार्य कार्यो यत्नः सर्वदा सिद्धिलब्ध्यै ॥ ७५ ॥ कल्मषाष्टकमयास्य सर्वथा ये गुणाष्टकमवापुरूर्जितम् । जातिमृत्युभवदुःखवर्जिता स्ते वसंतु मम निर्वृता हृदि ॥ ७६ ॥ दृष्टिवादमकराकरादिदं प्राभृतैकलवरत्नमुद्धृतम् । ज्ञानदर्शनचरित्रवृहक - गृह्यतां शिवनिवासकांक्षिभिः ॥ ७७ ॥ बंधं पाकं कर्मणां सत्त्वमेत द्वक्तुं शक्तं दृष्टिवादप्रणीतम् । शास्त्रं ज्ञात्वाऽभ्यस्यते येन नित्यं . सम्यक् तेन ज्ञायते कर्मतत्त्वम् ॥ ७८ ॥ कर्मबंधगुणजीवमार्गणा स्थानयोजनपरायणोऽस्ति यः । सत्तपोदलितकर्मसंहतिः - सोऽस्तु तेऽमितगतिः शिवास्पदम् ॥ ७९ ॥ इति श्रीमदमितगत्याचार्यवर्यप्रणीते पंचसंग्रहे सप्ततिः समाप्ता। १ त्यक्त्वा । २ त्यक्त्वा । ३ दृष्टिवादो द्वादशांगः स एव मकराकरः समुद्रस्तस्मात् । १५पं. सं. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250