Book Title: Panchsangrah
Author(s): Amitgati Acharya, Darbarilal Kothiya
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 242
________________ (२३३) पंचविंशतिमत्यस्य तिर्यगायुर्विवर्जिता। युक्तास्तीर्थकरेणान्या निव्रताः परिगृण्हते ॥ ५५ ॥ आहारकद्वये योगे षष्ठवद्गृह्णते विना । आहारकद्वयश्वभ्रद्वितयायुश्चतुष्टयैः ॥ ५६ ॥ कार्मणे गण्हते योगे शेषा मिथ्याशस्त्विमाः। देवक्रियिकद्वन्द्वतीर्थकर्तृत्ववर्जिताः ॥ ५७ ॥ आहारकाहारकमिश्रद्वये ६३ । ओधेन कार्मणे योगे ११२ । मिथ्यादृशः १०७।। श्वभ्रायु रकद्वन्द्वत्यक्ताः संत्यज्य षोडश । एताभ्यः सासना योगे गृह्णते कार्मणे पराः । ९४ ॥५८॥ नतिर्यगायुषी हित्वा पंचविंशतिमव्रते । सुरवैक्रियिकद्वन्द्वतीर्थकर्तृत्वसंयुताः । ७५ ॥ ५९॥ सयोगा गृण्हते सातं प्रतरे लोकपूरणे । यौगिकी मार्गणा ख्याता वैदी सा कथ्यतेऽधुना ॥ ६०॥ ___ इति योगमार्गणा समाप्ता । एकाग्रविंशतिर्यावद्धंधकोऽस्त्यनिवृत्तिकः । ओघो वेदत्रये तावत्संत्यवेदास्ततः परे ॥ ६१ ॥ इति वेदमार्गणा समाप्ता। ओघोदितः कषायेषु बंधो मिथ्यागादिषु । नवमं दशमं यावनिकषायेषु चेरितः ॥ ६२ ॥ ओघेन कषायचतुष्काणां १२० । विशेषतो मिथ्याहष्टयादीनामेकविंशतिविंशत्येकोनविंशतिबंधकानिवृत्तिपर्यन्तानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250