Book Title: Panchsangrah
Author(s): Amitgati Acharya, Darbarilal Kothiya
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 246
________________ (२३७ ) हित्वा तृतीयकोपादिचतुष्कं ताः प्रमादिनः । शोकस्थिराशुभासातायशोऽरतिविवर्जिताः ॥ ८७ ॥ आहारकद्वयाः शेषाः स्वीकुर्वन्त्यप्रमत्तकाः । शान्तान्तेषु परेष्वोघो द्रष्टव्योऽपूर्वकादिषु ॥ ८८ ॥ प्रमत्ताः ६२ । अप्रमत्ताः ५८ । इति भव्यसम्यत्क्वमार्गणा । ओघोक्ताः संज्ञिनां मिथ्यादृष्टियातास्त्वसंज्ञिनाम् । एतेषां सासनस्थानां ज्ञातव्याः सासनस्थिताः ॥ ८९ ॥ इति संज्ञिमार्गणा। अस्त्याहारकेष्वोघः कर्मप्रकृतिबंधने । ज्ञेयः कार्मणयोगस्थो अंगोनाहारकेषु तु ॥ ९० ॥ इति आहारकमार्गणा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250